विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 329, कुल 493 में से
संदर्भ में पढ़ें( ३२१ )
नाद्य यावदवलोकिता जनैः क्वापि तस्य वचसामसत्यता ।
मादृशां शुभविपर्ययाद्यदि व्यक्तिमेष्यति भवादृशेषु सा ॥५६॥
अन्वयः
अद्य यावत् जनैः तस्य वचसाम् असत्यता क्व अपि न अवलोकिता ।
यदि मादृशां शुभविपर्ययात् सा भवादृशेषु व्यक्तिम् एष्यति ।
व्याख्या
अद्य यावदाधुनिककालपर्यन्तं जनैर्लोकैस्तस्य वचसां वाणीनामसत्यता मिथ्यात्वं
क्वाऽपि कस्मिन्नपि विषये नाऽवलोकिता न दृष्टा नानुभूतेत्यर्थः । यदि परं
मादृशां मत्सदृशानां शुभस्य पुण्यस्य विपर्ययो वैपरीत्यं तस्मात्पापात् दुर्भाग्याद्वा
साऽसत्यता भवादृशेषु त्वादृशेषु महानुभावेषु व्यक्तिं प्रकाशमेष्यति प्राप्स्यति ।
अयमस्माकं दौर्भाग्यस्यैव प्रभावः स्याद्यदि तस्य वचसामसत्यता भवत्सु प्रकटीभ-
वेदिति भावः ।
भाषा
आज तक लोगों को किसी भी विषय में द्राविड़ेश्वर की वाणी की
असत्यता का अनुभव नहीं हुआ है । यदि आपके अनुभव में ऐसी बात आवे
तो वह मेरे ऐसों के पाप से या दुर्भाग्य से ही हो सकता है ।
एवमादिभिरनेन बोधितः कौविदेन वचनैः पुनः पुनः ।
ज्ञातचोलहृदयः स्वयं च स प्राङ्निवेदितमगान्नदीतटम् ॥६०॥
अन्वयः
कोविदेन अनेन एवम् आदिभिः वचनैः पुनः पुनः बोधितः स्वयं च
ज्ञातचोलहृदयः सः प्राक् निवेदितं नदीतटम् अगात् ।
व्याख्या
कौविदेन पण्डितेन लोकिव्यवहाराभिज्ञेनेत्यर्थः । अनेन दूतेनैवमादिभि-
रेतादृशैर्वचनैः पुनः पुनौ भूयो भूयो बोधितो विज्ञापितः स्वयञ्च गुप्तचरादि-
भिर्ज्ञातं परीक्षितं चोलस्य चोलदेशाधिपस्य हृदयं येन स विज्ञातचोलराज-
हार्दिग्भावः स विक्रमाङ्कदेवः प्राक् पूर्वं निवेदितं सूचितं नदीतटं तुङ्गभद्रानदी-
तीरमपाऽजगाम ।
२१