सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 324, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 324

( ३१४ )
कीदृशी शशिमुखी भवेदिति स्पृश्यते स्म हृदये स चिन्तया ।
• कामुकेषु मिषमात्रमीक्षते नित्यकुण्डलितकार्मुकः स्मरः ॥४८॥
अन्वयः
सः शशिमुखी कीदृशी भवेत् इति चिन्तया हृदये स्पृश्यते स्म ।
नित्यकुण्डलितकार्मुकः स्मरः कामुकेषु मिषमात्रम् ईक्षते ।
व्याख्या
स विक्रमाङ्कदेव शशिमुखी चन्द्रमुखी द्रविडदेशराजकुमारी कीदृशी
किस्वरूपा भवेदिति चिन्तया विचारेण हृदये मनसि चित्तन्तु चेतो हृदय स्वान्त
हृन्मानस मन' इत्यमर । स्पृश्यते स्म चिन्तितो बभूव । नित्य सदैव
कुण्डलित समाकृष्ट कार्मुक धनुर्येन स सततसज्जधनु स्मर कामदेव कामुकेषु
कामिषु कान्ताप्रत्यनुरागसम्भृतेष्वित्यर्थ । मिषमात्र व्याजमात्रमीक्षते
पश्यति । चिन्तोत्पादनव्याजेनैव कामबाणव्यापार सफल इति भाव ।
अत्रार्थान्तरन्यासोऽलङ्कार ।
भाषा
यह विक्रमाङ्कदेव, द्रविड देश के राजा की चन्द्रवदनी कन्या कैसी होगी
इस विचार से चिन्तित हो उठा । कामियों के प्रति सदा धनुष सज्ज रखने
वाला कामदेव, कामियों को पीडित करने में कोई बहाना ही खोजता रहता है ।
अब्रवीच्च मनसः प्रसन्नतां दन्तकान्तिभिरुदीरयन्निव ।
ओष्ठपृष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः ॥४६॥
अन्वयः
ओष्ठपृष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः (सः) दन्तकान्तिभिः
मनसः प्रसन्नताम् उदीरयन् इव अब्रवीत् च ।
व्याख्या
ओष्ठयो पृष्ठं तत्र लुठितो लुलित स्मितस्येषद्धासस्याऽञ्चल प्रान्तभागो
यस्य स ओष्ठपृष्ठलुठितस्मिताञ्चलो लज्जयेवदासयुक्त कुन्तलीनां कुन्तलदेश-
कामिनीनां नयनानि नेत्राणि 'लोचन नयन नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमर ।