विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 303, कुल 493 में से
संदर्भ में पढ़ें(( २८८ )
तत्करीन्द्रनिवहावगाहनैर्वाहिनी प्रतिपथेन सागमत् ।
दन्तिदानजलनिम्नगाः पुनर्लेभिरे प्रणयमापगापतेः ॥९१॥
अन्वयः
सा वाहिनी तत्करीन्द्रनिवहावगाहनैः प्रतिपथेन अगमत्। दन्तिदान-
जलनिम्नगाः आपगापतेः प्रणयं पुनः लेभिरे।
व्याख्या
सा प्रसिद्धा वाहिनी तुङ्गभद्रानदी 'वाहिण्यो नर्तकी दूत्यौ स्रवन्त्यामपि
वाहिनी' इत्यमरः। तस्य विक्रमाङ्कदेवस्य करीन्द्रा गजेन्द्रास्तेषांनिवहा समूहा-
स्तेषामवगाहनानि स्नानानि तैस्तत्करीन्द्रनिवहावगाहनैः प्रतिपथेन विपरीत-
मार्गेणाऽगमत् प्रवहति स्म। दन्तिनां करिणां दानजलस्य मदजलस्य निम्नगा
नद्य आपगानां नदीनां 'स्रवन्ती निम्नगापगा' इत्यमरः। पतिस्समुद्रस्तस्य
प्रणयं स्नेहं सङ्गममित्यर्थः। पुनर्लेभिरे प्रापुश्च। तुङ्गभद्रायाः प्रतिकूलगमनेन
मदजलनदीनाञ्च समुद्रसङ्गमेन गजेन्द्राणामत्याधिक्यं सूचितम्। अत्र लिङ्गसाम्या-
न्नायक-नायिकाव्यवहारप्रतीतेः समासोक्तिरलङ्कारः। तुङ्गभद्राया दृष्टनायिका-
व्यवहारश्च प्रतीयते।
भाषा
वह तुङ्गभद्रा नदी विक्रमाङ्कदेव के असंख्य बड़े २ हाथियो के एक साथ
उसमें उतर कर स्नान करने से उलटी बहने लगी और हाथियो के मदजल की
नदियां समुद्र में जा मिलीं।
वारणः प्रतिगजं विलोकयंस्तद्विमर्दरसमांसलस्पृहः ।
आददे न विशदं नदीजलं शीलमीदृशममर्षशालिनाम् ॥९२॥
अन्वयः
प्रतिगजं विलोकयन् तद्विमर्दरसमांसलस्पृहः वारणः विशदं नदीजलं
न आददे। अमर्षशालिनाम् ईदृशं शीलम्।
व्याख्या
प्रतिगजं प्रतिमल्लहस्तिनं विलोकयन् संपश्यन् तस्य प्रतिगजस्य विमर्द्देन
सम्मर्द्देन शरीरसंघट्टनेन वा यो रसो जलभानं दो वा तस्मिन्मांसला बलवती