विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 285, कुल 493 में से
संदर्भ में पढ़ें( २६९ )
स जातु जातुषीं मेने मन्ये नरपतिश्रियम् ।
एतद्विलयभीत्येव क्षात्रं तेजो यदत्यजत् ॥१०४॥
अन्वयः
सः नरपतिश्रियं जातु जातुषीं मेने (इति अहम्) मन्ये । यत् एतद्विल-
यभीत्या इव (सः) क्षात्रं तेजः अत्यजत् ।
व्याख्या
सः सोमदेवो नरपते राज्ञः श्रियं लक्ष्मीं नरपतिश्रियं राजलक्ष्मीं जातु
कदाचित् जतुषो लाक्षाया विकारो जातुषी तां जातुषीं लाक्षामयीं मेने विज्ञात-
वानित्यहं मन्ये कल्पयामि । यद्यस्मात्कारणादेतस्या लाक्षामयलक्ष्म्या विलयो
द्रवीभूतत्वं तस्माद्भीतिस्तया लाक्षामयलक्ष्म्या द्रवीभूतत्वात्तस्या विलयो
माऽभूदिति भीत्येव सः सोमदेव क्षात्रं क्षत्रियसम्बन्धि तेजः प्रताप-मत्यजत्
तत्याज । उष्णत्वादिति यावत् ।, क्षात्रतेजोहीनस्सञ्जात इति भावः ।
अत्रोत्प्रेक्षालङ्कारः ।
भाषा
मैं समझता हूँ कि सोमदेव ने राजलक्ष्मी को लाख की बनी समझ लिया
था । इसी कारण से क्षात्र तेज की गर्मी से कहीं वह पिघल कर नष्ट न हो
इस हेतु से उसने क्षात्र तेज को ही छोड़ दिया था।
ज्ञातास्वादः स्वयं लक्ष्म्याः पिशाच्या इव चुम्बनात् ।
रुधिरं कण्ठरन्ध्रेभ्यः सर्वेषामाचकाङ्क्ष सः ॥१०५॥
अन्वयः
पिशाच्याः इव लक्ष्म्याः चुम्बनात् स्वयं ज्ञातास्वादः सः सर्वेषां कण्ठ-
रन्ध्रेभ्यः रुधिरम् आचकाङ्क्ष ।
व्याख्या
पिशाच्या राक्षस्या इव लक्ष्म्याः श्रियश्चुम्बनात् मुखचुम्बनात् पिशाच्या दधि-
रक्तानुरक्तवातस्याः चुम्बनात् स्वयं सोमदेवो ज्ञातोऽनुभूतो रुधिरस्याऽऽस्वादः
स्वादुत्वं येन सोऽनुभूतशोणितास्वाद सः सोमदेव सर्वेषां जनानां कण्ठरन्ध्रेभ्यो