सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 28, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 28

॥ श्रीः ॥
महाकवि श्री विल्हण विरचितं
विक्रमाङ्कदेवचरितम्
─❧❦☙─
प्रथमः सर्गः ।
भुजप्रभादण्ड इवोर्ध्वगामी स पातु वः कंसरिपोः कृपाणः ।
यः पाञ्चजन्यप्रतिबिम्बभङ्ग्या धाराम्भसः फेनमिव व्यनक्ति ॥१॥
अन्वयः
यः पाञ्चजन्यप्रतिबिम्बभङ्ग्या धाराम्भसः फेनं व्यनक्ति इव, सः
ऊर्ध्वगामी भुजप्रभादण्डः इव कंसरिपोः कृपाणः वः पातु ।
व्याख्या
नृत्यन्ती मुखकमले सुकवीनां रसतरङ्गमग्नानाम् ।
वाणी हंसीव सरो रमणीयं दर्शयति विश्वम् ॥
प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्तये शिष्टाचारपरिप्राप्त "आशीर्नम-
स्क्रिया वस्तुनिर्देशो वापि तन्मुखम्" इति मङ्गलाचरणं कर्तव्यमिति श्री
विल्हण-कविरादौ स्वेष्टदेवतां स्मरन्नाशीर्वादात्मकं मङ्गलमाचरति भुजप्रभादण्ड
इति ।
यः पाञ्चजन्यस्य विष्णो शङ्खस्य 'शङ्खो लक्ष्मीपतेः पाञ्च-जन्यश्चक्र
सुदर्शनम्' इत्यमरः । प्रतिबिम्बस्य प्रतिच्छायाया भङ्ग्या व्याजेन धारायाः
कृपाणधाराया अम्भसो जलस्य फेनं डिण्डिरं "डिण्डिरोऽब्धिकफः फेनः" इत्यमरः ।
व्यनक्तीति प्रकटयतीव सः प्रसिद्ध ऊर्ध्वगाम्युपरिष्टात्प्रसरणशीलो भुजप्रभादण्ड
इव दण्डायमानबाहुकान्तिकलाप इव कंसरिपोः कृष्णस्य कृपाणः करवालो
वो युष्मान् पातु रक्षतु । श्री कृष्ण सम्बन्धिन् कृपाणस्योर्ध्वप्रसरणशीलत्वरूप
समानधर्मसम्बन्धनिमित्तक भुजकान्तिदण्डत्वेनाऽहार्यसम्भावनमुत्प्रेक्षेव-पदवाच्या ।