सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 247, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 247

( २२७ )
व्याख्या
अवृष्टपरदृष्टिगोचरैः कैश्चिदियाऽनिर्दिष्टनामकैरिवाऽऽगत्य संप्राप्य चिन्तयाऽऽ-
ध्यानेन 'स्याच्चिन्तास्मृतिराध्यानम्' इत्यमरः । शून्यं चेतश्चित्तं यस्य तस्य
विवेकरहितहृदयस्य 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । तस्य
विक्रमाङ्कदेवस्य कर्णे श्रोत्रे काऽपि काचित् विचित्राऽप्यमङ्गलवार्ताऽशुभवृत्तान्तो
न्यधीयत स्थापिता कथितत्यर्थः ।
भाषा
प्रत्यक्ष पहिचान में न आने वाले लोगो के समान कुछ लोगो ने मानो
आकर चिन्ता से शून्य हृदय उस राजपुत्र के कान में कोई अमङ्गल बात कही।
शुभाशुभानि वस्तूनि संमुखानि शरीरिणाम् ।
प्रतिबिम्बमिवायान्ति पूर्वमेवान्तरात्मनि ॥३४॥
अन्वयः
संमुखानि शुभाशुभानि वस्तूनि शरीरिणाम् अन्तरात्मनि प्रतिबिम्बम्
इव पूर्वम् एव आयान्ति ।
व्याख्या
संमुखानि सम्मुखमागतानि सन्निकटवर्तीनीत्यर्थः । शुभं मङ्गल्यमशुभममङ्गल्यं
तानि मङ्गल्यामङ्गल्यरूपानि वस्तूनि घटनाः शरीरिणां प्राणिनामन्तरात्मनि प्रति-
बिम्बमिव प्रतिच्छायामिव प्रागेवाऽऽयान्ति पूर्वमेव समागच्छन्ति । भवितव्यतायाः
परिज्ञानं प्राणिनामन्तः प्रथममेव सूचितम्भवतीति भावः ।
भाषा
निकट भविष्य में होने वाली शुभ और अशुभ घटनाएं प्राणियों के हृदय
में प्रतिबिम्ब के समान पहिले ही प्रतिबिम्बित हो जाती हैं।
अवगाहितनिःशेष-शास्त्रनिर्मलधीरपि ।
अकारणमसौ प्राप्तः कुमारो यदधीरताम् ॥३५॥