सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 243, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 243

( २२५ )
आक्रान्तरिपुचक्रेण १चक्रकोटपतेः परम् ।
लिखिताश्चित्रशालासु तेनामुच्यन्त दन्तिनः ॥३०॥
अन्वयः
आक्रान्तरिपुचक्रेण तेन चक्रकोटपतेः चित्रशालासु लिखिताः दन्तिनः
परम् अमुच्यन्त ।
व्याख्या
आक्रान्तं समाक्रान्तं विजितमित्यर्थः । रिपुचक्रं शत्रुचक्रवालं येन तेन
विजितारिसमूहेन तेन विक्रमाङ्कदेवेन चक्रकोटनामकस्थानस्य पतिः स्वामी तस्य
चक्रकोटदेशाधिपत्य चित्राणां शालासु गृहेषु चित्रमन्दिरेषु लिखिताश्चित्रिता
दन्तिनो गजाः परं केवलममुच्यन्त मुक्ताः । चक्रकोटपतेस्सकला गजा स्वायत्तीकृता
इत्यर्थः । अत्र केवलं चित्रलिखिता गजा एव त्यक्ता इत्युक्त्या सर्वाऽपि गजसेना
स्वायत्तीकृतेति प्रतीत्याऽर्थापत्तिरलङ्कारः ।
भाषा
शत्रु समूह को जीतने वाले उस राजकुमार विक्रमाङ्कदेव ने चक्रकोट के
राजा की चित्रशाला में चित्रित हाथियो को ही केवल छोड़ दिया अर्थात् उसके
सव हाथी ले लिये ।
कृतकार्यः परावृत्य कियत्यप्यध्वनि स्थितः ।
अथ गम्यत्वमरतेरकस्मादेव सोऽगमत् ॥३१॥
अन्वयः
अथ कृतकार्यः सः परावृत्य कियति अध्वनि अपि स्थितः (सन्)
अकस्मात् एव अरतेः गम्यत्वम् अगमत् ।
व्याख्या
अथ दिग्विजयानन्तरं कृतं कार्यं दिग्विजयलक्षणं येन सः सम्पादितोद्देश्यः
१ वङ्गिदेशस्योत्तरतश्चक्रकोटनगरमासीत् । एतत्प्रदेशो हस्तिनामभिख्याता
'आइने अकबरी' पुस्तकेनाऽपि समर्थ्यते ।
१५