विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 240, कुल 493 में से
संदर्भ में पढ़ें( २१९ )
व्याख्या
धनुश्चापं धुनोनेन संचालयता टङ्कारयता वा तेन विक्रमाङ्कदेवेन 'गाङ्ग-
कुण्डस्य गाङ्गकुण्डचोलपुरनामकस्य पुरस्य नगरस्य स्त्रीणां ललनानां मुखेन्दव
आननचन्द्रा गलन्ति भूमौ पतन्ति कुण्डलमण्डलानि कर्णभूषणसमूहा येभ्यस्ते
स्रस्तोत्तंससमूहाः कृता विरचिता इति चित्रमाश्चर्यकरम् । गाङ्गकुण्ड-चोलपुरस्य
विजयः कृतस्तेन युद्धे मृतानां पतीनां नाशात् स्त्रीणामाभूषणत्यागः संजात इति
भावः । अथवा कर्णफोटकेन भयंकरधनुष्टङ्कारेण पूरिताना कर्णाना शम्पना-
तद्गतभूषणपतनं जातमिति भावः । अत्रधनु कम्पनेन कुण्डलाना निपत-
नोक्तेयाऽसङ्गत्यलङ्कारः । "कार्यकारणयोभिन्नदेशतायामसंगतिः" इति लक्षणात् ।
भाषा
उसके धनुष की टङ्कार करते रहने से गङ्गकुण्ड चोलपुर की स्त्रियों के
मुखचन्द्र, कान के आभूषणों से रहित हो गए, यह एक आश्चर्य की बात है ।
अर्थात् धनुष के कर्ण के लिये असह्य, टङ्कारों से कान का पर्दा फटने लगने से
कानों को जोर से हिलाने पर, उनमें के आभूषण गिर गए । अथवा पतिमरण
से आभूषण धारण करना बन्द हो गया ।
यशःकूर्चिकया चित्रं दिग्भित्तिषु निविष्टया ।
द्रविडीगण्डफलके तेनावर्त्यत पाण्डिमा ॥२२॥
अन्वयः
तेन दिग्भित्तिषु निविष्टया यशःकूर्चिकया द्रविडीगण्डफलके पाण्डिमा
अवर्त्यत इति चित्रम् ।
व्याख्या
तेन कुमारेण विक्रमाङ्कदेवेन दिश एव भित्तयस्तासु निविष्टया संप्राप्तिया
यशसः स्वकीर्ते कूर्चिका यशोरूपश्वेतीकरणद्रव्यपदार्थस्य लेपनयन्त्रं तया द्रविडीनां
द्राविडाङ्गनानां गण्डफलके कपोलस्थले पाण्डिमा शुक्लत्वमवर्त्यत प्रावर्त्यत
शुक्लत्वं कृतमित्यर्थः । इति चित्रमाश्चर्यकरम् । पतिमरणात् खेदात्
१ राजेन्द्र चोल (गंगैगोण्ड) निर्मापिता चोलराजधानी । कावेरीनद्यास्तटे
विद्यमानाऽसीत् । सम्प्रति गङ्गकुण्डचोलपुरनाम्ना प्रसिद्धा ।