सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 231, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 231

( २१० )
स्मिन् शीतोपचारस्य सन्तापनिवारणपूर्वकशीतानयनस्य साम्राज्यं वैशिष्ट्यं भेजुः
सिषेविरे । समुद्रे चन्दनजलवासितानां नदीनां समागमात् समुद्रे शैत्यं जातं
बडवानलसन्तापश्च निवारित इति भावः ।
भाषा
बडवानल से तपे समुद्र में चन्दन के रस से सुवासित, मलयाचल की नदियां
शीतोपचार का काम करने लगीं ।
सखीव निखिलैस्तस्य सेनासीमन्तिनीजनैः ।
प्रीत्या मलयवायूनां जन्मभूमिरदृश्यत ॥७॥
अन्वयः
तस्य निखिलैः सेनासीमन्तिनीजनैः प्रीत्या सखी इव मलयवायूनां
जन्मभूमिः अदृश्यत ।
व्याख्या
तस्य विक्रमाङ्कदेवस्य निखिलैस्समस्तैः सेनायां सेनया सह समागताः
सीमन्तिन्योऽङ्गनास्तासां जनतसमूहस्तैः प्रीत्या प्रेम्णा सखीव प्रेयसीव मलयवायूनां
दक्षिणानिलानां जन्मभूमिर्मलयपर्वतोऽदृश्यत परिवीक्षिता । संयोगावस्थायां
सुखप्रदानां दक्षिणानिलानां जन्मभूमिरङ्गनाभि सखीव प्रीत्या दृष्टेति भावः ।
भाषा
उसकी सेना में स्थित अङ्गनाओं ने दक्षिणानिल की जन्म भूमि मलयाचल को
(संयोगावस्था में दक्षिणानिल के सुखद होने के कारण) सखी के समान प्रेम
से देखा ।
मलयेन तदीयस्त्रीसुरभिश्वसितानिलैः ।
गुहाश्चन्दनवायूनां बीजार्थमिव पूरिताः ॥८॥
अन्वयः
मलयेन तदीयस्त्रीसुरभिश्वसितानिलैः गुहाः चन्दनवायूनां बीजार्थं
पूरिताः इव ।