सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 141, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 141

( ११८ )
तथेति देव्या कृतसम्मतिस्ततः समस्तचिन्तां विनिवेश्य मन्त्रिषु ।
अभूदनुष्ठानविशेषतत्परः स पार्थिवः प्रार्थितवस्तुसिद्धये ॥४३॥
अन्वयः
ततः देव्या इति तथा कृतसम्मतिः सः पार्थिवः समस्तचिन्तां मन्त्रिषु
विनिवेश्य प्रार्थितवस्तुसिद्धये अनुष्ठानविशेषतत्परः अभूत् ।
व्याख्या
ततस्तदनन्तरं देव्या पत्न्या 'एतद् भवदुक्तं पुत्रोत्पत्तिरूपं कार्यं तपस्साधनेन स्या-
दिति हेतोस्तथैवास्तु, इति कृता सम्मतिर्येन स कृतनिश्चयस्स पार्थिवो राजा
समस्तां संपूर्णां चिन्तां राज्यभारचिन्तां मन्त्रिष्वमात्येषु विनिवेश्य विनिक्षिप्य
प्रार्थितस्याभीष्टस्य वस्तुनः पुत्रस्य सिद्धये प्राप्तयेऽनुष्ठानविशेषे विशिष्टानुष्ठाने
तत्पर आसक्तोऽभूत् । 'तत्परे प्रसितासक्तौ' इत्यमरः ।
भाषा
इसके अनन्तर, अपनी रानी की सम्मति मिलने पर, उस राजाने राजकाज
का बोझ मन्त्रियों को सौंपकर अभीष्ट पुत्रप्राप्ति की सिद्धि के लिये विशिष्ट
अनुष्ठान करना प्रारम्भ कर दिया ।
तपः स्वहस्ताहृतपुष्पपूजित-त्रिलोचनः स्थण्डिलवासधूसरः ।
तथा स राजर्षिरमाधयद्यथा महर्षयोऽस्मादपकर्षमाययुः ॥४४॥
अन्वयः
सः राजर्षिः स्वहस्ताहृतपुष्पपूजितत्रिलोचनः स्थण्डिलवासधूसरः (सन्)
तथा तपः असाधयत् यथा अस्मात् महर्षयः अपकर्षम् आययुः ।
व्याख्या
स राजर्षि ऋषिव्रतगृहीतो नृपः स्वहस्ताभ्यां स्वकराभ्यामाहृतानि समानीतानि
च तानि पुष्पाणि कुसुमानि तैः पूजितोऽभ्यर्चितस्त्रिलोचनः शंकरो येन सः स्थण्डिले
भूमिविशेषे वासेन शयनादिना 'यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ'
इत्यमरः । धूसरः सरजस्कस्तन् तपोग्रं तपस्तपश्चरणमसाधयत् कृतवान्