सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 134, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 134

( १११ )
अन्वयः
गेहिनी यथा निर्व्याजम् अलीकहासिना अङ्कपर्यङ्कगतेन सुतेन शोभते
तथा प्रियप्रसादेन विलाससम्पदा भूषाविभवेन (वा) न शोभते ।
व्याख्या
गेहिनी गृहिणी गृहधर्मरता स्त्री यथा निर्व्याजं निष्कपटं यथास्यात्तथाऽलीक
हासिनाऽनृतहासिना कारणमन्तरेव प्रकृत्या हासं कुर्वता 'अलीकं त्वप्रियेऽनृते'
इत्यमर । अङ्क उत्सङ्ग एव पर्यङ्कः खट्वा 'अङ्को रूपकभेदाऽङ्कचिह्नरेखाजिभू-
षणे । रूपकाज्ञातिकोशस्सङ्गस्थानेऽङ्क पापदु खयोरिति' मेदिनी । 'शयनं मञ्चपर्यङ्क-
पल्यङ्काः खट्वया समा' इत्यमर । तद्गतेन सुतेन पुत्रेण शोभते सौभाग्यमालभ्यते
तथा प्रियस्य पत्यु प्रसादेन प्रसन्नताप्रदर्शनेन विलासस्य भोगस्य सम्पदा विभवेन,
भोग्यसुखसमृद्धिसामग्र्या भूषाया भूषणस्य विभवेन वैशिष्ट्येन वा न शोभते ।
भाषा
गृहिणी जिस प्रकार कपट रहित स्वाभाविक हास्य करने वाले गोद रूपी
पलङ्ग पर लेट हुए पुत्र से शोभित होती है वैसे न तो पती की प्यारी होने से,
न उपभोग योग्य सुख समृद्धि की वस्तुओ से, न गहना कपड़ा पहनने से शोभित
होती है ।
वहन्ति हिंस्राः पशवः कमात्मनो गुणं वितर्क्यात्मजरक्षणश्रमम् ।
पदार्थसामर्थ्यमचिन्त्यमीदृशं यदत्र विश्राम्यति निर्भरं मनः ॥३३॥
अन्वयः
हिंस्राः पशवः आत्मनः कं गुणं वितर्क्य आत्मजरक्षणश्रमं वहन्ति ।
ईदृशम अचिन्त्यं पदार्थसामर्थ्यं यत् अत्र मनः निर्भरं विश्राम्यति ।
व्याख्या
हिंस्रा हिंसकाः पशवो व्याघ्रादय आत्मनो स्वस्य क विशिष्टं गुणं प्रयोजनं
वितर्क्य विमृश्याऽऽत्मजस्य पुत्रस्य रक्षणस्य भरणपोषणावधि पालनस्य श्रमं खेदं
वहन्ति धारयन्ति । ईदृशमित्थंभूतमचिन्त्यमकथनीयमनुभवैकगम्यं पदार्थसामर्थ्यं
पुत्रपदार्थाश्चर्यवत्त्वं यदत्र पुत्रे मनश्चित्तं 'चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं
मन' इत्यमर । निर्भरमत्यन्तं विश्राम्यति सन्तोषसुखं शान्तिञ्च लभते ।