विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 130, कुल 493 में से
संदर्भ में पढ़ें( १०७ )
अन्वयः
तत्र सः भार्गवप्रचण्डकोदण्डपरिश्रमः नृपः सर्वाः ककुभः विजित्य
अर्थिशतानि पूरयन् उवास । हि श्रियः फलं पात्रप्रतिपादनम् ।
व्याख्या
तत्र कल्याणपुरे सः प्रसिद्धो भार्गवस्य परशुरामस्य प्रचण्डो भयङ्करः कोदण्डो
धनुः 'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । तस्य परिश्रम इव
परिश्रमः संप्रहारकार्यं यस्य स नृप आहवमल्लदेवः सर्वास्समग्राः ककुभो दिशो
विजित्य स्वायत्तीकृत्याऽर्थिशतानि याचकशतमनोरथान् पूरयन्सफलयन्नुवास ।
हि यस्मात्कारणाच्छ्रियो लक्ष्म्यास्साम्पदश्च फलं सार्थक्यं पात्रेषु योग्यस्थानेषु
प्रतिपादनं दानम् । अत्रार्थान्तरन्यासाऽलङ्कारः ।
भाषा
परशुराम के भयङ्कर धनुष के सहार के समान सहार करने वाला वह
प्रसिद्ध राजा आहवमल्लदेव, समग्र दिशाओ को जीतकर और सैकडो अर्थिजनो
को दान देकर कल्याणपुर में रहने लगा । क्योकि लक्ष्मी का सार्थक्य योग्य
आर्थियो को दान देना ही है ।
जगत्यनर्घेषु समस्तवस्तुषु क्षितीश्वरः पादतलेस्थितेष्वपि ।
अभूद्विना पुत्रमुखेन्दुदर्शनं प्रभातनीलोत्पलदीनलोचनः ॥२७॥
अन्वयः
क्षितीश्वरः जगति अनर्घेषु समस्तवस्तुषु पादतलेस्थितेषु अपि पुत्रमुखेन्दु
दर्शनं विना प्रभातनीलोत्पलदीनलोचनः अभूत् ।
व्याख्या
क्षितेः पृथ्व्या ईश्वरः प्रभुर्जगति लोके 'त्रिविष्टपो जगती लोको विष्टप भुवं
जगत्' इत्यमरः । अनर्घेष्वमूल्येषु समस्तवस्तुषु सकलपदार्थेषु पादतलेष्वे
समीप एव स्थिता विद्यमानास्तेष्वतिगुरुत्त्वेषु सत्स्वपि पुत्रस्याऽऽत्मजस्य यन्मुखमान
सदेवेन्दुश्चन्द्रस्तस्य दर्शनमवलोकनं विना प्रभाते प्रातःकाले सूर्योदयानन्तरं
निष्प्रभे नीलोत्पल इव दीने कान्तिरहिते लोचने नेत्रे यस्य स अभूत् । चन्द्रदर्शं