विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 126, कुल 493 में से
संदर्भ में पढ़ें( १०३ )
व्याख्या
यत्र पुरे स्मरस्य कामस्याऽस्त्राणां कौशलं नैपुण्यमद्भुतमाश्चर्यकारि परि-
दृश्यते । तथाह्यसौ स्मर उत्पलपत्राणां कमलपत्राणां मित्रतां साम्यमुपागतै
प्रान्तैरतितीक्ष्णैस्तैरित्यर्थः । चाक्षुदृशा रम्यनयनानां नारीणां विलोचनैरक्षिभि
शिलावत्पाषाणवत्कठोराणि कठिनानि धैर्यातिशययुक्तान्यपि मनांसि यूनां चेतांसि
विध्यति भिनत्ति । कार्यकारणयोर्गुणभेदादत्र विषमालङ्कारः । 'गुणौ क्रिये
वा चेत्स्यातां विरुद्धे हेतुकार्ययोः । यद्वारब्धस्य वैफल्यमनर्थस्य च सम्भवः ।
विरूपयोः संघटनं या च तद्विषमं मतम्' ।
भाषा
इस नगर में कामदेव का अस्त्रप्रयोग का कौशल आश्चर्य जनक था । इसीलिये
वह कमल के पत्तों की समानता अर्थात् कोमलता को प्राप्त, सुन्दर नखवाली
नारियों के नेत्रों से पत्थर के ऐसे कड़े युवकों के हृदयों को वेध देता था ।
समुद्रवेला रतिरत्नसम्पदा वधूतडित्ताण्डवमेघमण्डली ।
नभःस्थली विभ्रमतारकस्रजा विभाति यत्र स्मरतल्पकल्पना ॥२१॥
अन्वयः
यत्र स्मरतल्पकल्पना रतिरत्नसम्पदा समुद्रवेला, वधूतडित्ताण्डवमेघ-
मण्डली, विभ्रमतारकस्रजा नभःस्थली, विभाति ।
व्याख्या
यत्र पुरे स्मरस्य कामस्य तल्पस्य शय्यायाः कल्पना रचना 'तल्पं शय्यादृवारेषु
स्तंबेऽपि विटपोऽह्निष्यान्' इत्यमरः । रतिः कामस्त्री तत्स्वरूपा या रत्नसम्पत् तया
सर्वजनहृद्यत्वाद्रते रत्नसम्पद्यभेदारोपः । समुद्रवेला सागरतटभूमिः, स्मरतल्प-
कल्पनायां समुद्रवेलाया आरोपः, रतिस्वरूपरत्नसम्पदस्समुद्रवेलायां स्थितत्वात् ।
वधूस्वरूपतडितरताण्डवं नृत्यं यत्रैवम्भूता मेघमण्डली, अस्याः स्मरतल्पकल्पनाया-
मारोपः । अत्र स्मरपत्नी रतिस्थानीया वधूरूपा तडित् । विभ्रमेण विलासेन
युक्तानां तारकाणां स्रजा मालया नभःस्थली व्योमभूमिः । अत्र रतिस्थानीया
तारकस्रक् । स्मरतल्पकल्पनायां नभःस्थल्याश्चारोपः । विभाति शोभते ।
रतिस्वरूप रत्नसम्पत्तडित्तारक्स्रग्भिः समुद्रवेलामेघमण्डलीनभःस्थलीनां स्मरतल्प
कल्पनेति भावः । अत्रोत्प्रेक्षा गन्धाः ।