सामग्री पर जाएँ
सर्वकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 100, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 100

( ७७ )
व्याख्या
पृथ्व्या भूमेर्भुजङ्गः पतिः कामुकश्च तस्य पृथिवीश्वरस्य निरर्गलेन निष्प्रति-
बन्धेन कलहेन विवादेन युद्धेन च विशीर्णे कर्णौ यस्याः सा, विशीर्णो नष्टः
कर्णस्तन्नामधेयो नृपो यस्याः सा च च्छिद्रकर्णा डाहलानां डाहलदेशीयमृपाणां
(डाहलदेशश्चेदीदेशादभिन्नः ।) श्री राजलक्ष्मीः कर्पूरस्य यत्ताटङ्कं कर्णभूषणं
'ताटङ्कमपि पाठ' तन्निभैस्तत्समानेर्यशोभि कीर्तिभिरधुनाप्यद्य यावन्न सङ्गच्छते
न मिलति न शोभत इत्यर्थः । कर्णाभावाद्भूषणाभावस्तत्कीर्त्यभावश्च ।
यशसः कर्पूरताटङ्केनेसादृश्यादुपमा ।
भाषा
उस राजा के या कामुक के बिना रोक टोक के युद्ध से अथवा अत्यधिक
झगडा हो जाने से डाहल के राजा कर्ण के मर जाने के कारण या दोनों कान
कट जाने के कारण, डाहल देश की राजलक्ष्मी, कपूर के बने हुए या कपूर के
ऐसे श्वेत कर्णभूषण के समान यशो से अभीतक शोभित नहीं होती है ।
पाठान्तरम्-भङ्ग्यन्तरेण तदेव वर्णनं, न तु पाठ भेदः—
उसी भाव को कवि दूसरे प्रकार से वर्णित करते हैं ।
कर्णे विशीर्णे कलहेन यस्य पृथ्वीभुजङ्गस्य निरर्गलेन ।
कीर्तिः समाश्लिष्यति डाहलोर्वीं न दन्तताङ्कनिभाधुनापि ॥१०३॥
अन्वयः
यस्य पृथ्वीभुजङ्गस्य निरर्गलेन कलहेन कर्णे विशीर्णे (सति) दन्तता-
ङ्कनिभा कीर्तिः अधुना अपि डाहलोर्वी न समाश्लिष्यति ।
व्याख्या
यस्य प्रसिद्धस्य पृथ्वीभुजङ्गस्य पृथ्वीपतेः कामुकस्य वा निरर्गलेन कोलाहल-
सम्पन्नेन कलहेन विवादेन युद्धेन वा कर्ण तन्नामके डाहलनृपे श्रोत्रे वा विशीर्णे
मृते वा त्रुटिते सति दन्तताङ्कनिभा गजदन्तनिर्मितकर्णभूषणवच्छुभ्रा कीर्ति
रधुनापि डाहलोर्वी डाहलदेशं न समाश्लिष्यति नाश्लिङ्गति । गजदन्त-
ताङ्केन कीर्तेर्धवल्येन साम्यादुपमा । भुजङ्गकर्णपदयोः श्लिष्टत्वात्कामिनी
रूपाप्रकृताथैन डाहलोर्वीरूपप्रकृतार्यस्योपमानोपमेयभावो व्यङ्ग्यः । एवं भुजङ्ग-
पदवाच्ययोरपि । तथा च शब्दशक्तिमूलध्वनिः समासोक्तिर्वा ।