वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 34, कुल 355 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १३
प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्य पाण्डववधूपरिधानकेशान्
स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥ ८ ॥
( सूत्रधारपाश्विकावाकर्णयतः )
पारिपार्श्विकः—भाव, कुत, एतत् ।
सूत्रधारः—( पृष्ठतो विलोक्य । ) अये, कथमयं वासुदेवगमनात्कुरुसन्धान-
ममृष्यमाणः पृथुललाटतटघटितविकटभ्रुकुटिना दृष्टिपातेनापिवन्निव नः
पाण्डववधूपरिधानकेशान्, आकृष्य, धार्तराष्ट्राः, मयि, जीवति, ( सति ) स्वस्थाः
भवन्ति ॥ ८ ॥
यदुक्तं सूत्रधारेण कुरुराजसुताः स्वस्था भवन्त्विति तन्मयि जीवति न भवितु-
मर्हतीत्याह—लाक्षागृहेति । लाक्षागृहानलविषान्नसभाप्रवेशैः = लाक्षानिर्मितं गृहं
लाक्षागृहं । मध्यमपदलोपिसमासः । तस्मिन् यः अनलः अग्निरिति लाक्षागृहानलः,
विषेण संमिश्रमन्नं विषान्नं, मध्यमपदलोपिसमासः । सभाप्रवेशः समितिप्रवेशः,
द्यूताद्यर्थमिति भावः । एषां द्वन्द्वः तैः, नः = अस्मान्, वित्तनिचयेषु = धनसमूहेषु,
प्राणेषु च = असुषु च, उभयत्र सप्तम्यर्थोऽवच्छेदकत्वम् तथाच धनसमूहावच्छेदेन
प्राणावच्छेदेन च अस्मान् प्रहृत्येत्यर्थः । प्रहृत्य = निहत्य, जतुगृहाग्निविषसम्पृक्त-
लड्डुकाभ्यां प्राणेषु प्रहारः, द्यूतार्थं सभाप्रवेशेन धनेषु प्रहार इति भावः । पाण्डव-
वधूपरिधानकेशान् = पाण्डुपुत्रस्त्रीवस्त्रकचान्, आकृष्य, धार्तराष्ट्राः = धृतराष्ट्रपुत्राः,
मयि = भीमे, जीवति = प्राणिति, प्राणान् धारयति सतीत्यर्थः । स्वस्थाः = सुस्थिताः,
भवन्ति । न कथमपि दुर्योधनादयः स्वस्था भविष्यन्तीति भावः । वसन्ततिलकम्
छन्दः ॥ ८ ॥
कुरुसन्धानममृष्यमाणः = कुरुभिः सन्धिमस्रहमानः, पृथुललाटतटघटितविकट-
भ्रुकुटिना = पृथु महत् यल्ललाटं तस्य तटे घटिता रचिता विकटभ्रुकुटिः, येन, तेन ।
जिन धृतराष्ट्र के पुत्रों ने लाख निर्मित महल, विष मिश्रित आहार तथा द्यूतक्रीडार्थ सभा-
गृह प्रवेशों के द्वारा हम लोगों के प्राण और धन के अपहरण की चेष्टा करके द्रौपदी के
वस्त्र और केशों को खींचा है वे मेरे जीते रहते हुए स्वस्थ हों ? कदापि नहीं ?
( सूत्रधार और पारिपार्श्वक दोनों सुनते हैं )
पारि०—यह कहाँ से••••••?
सूत्रधार—(पीछे की ओर देखकर) अरे ! यह क्या !! भगवान् श्रीकृष्ण के चले जाने
पर कौरव-सन्धि को सहन न करके क्रुद्ध होकर विशाल ललाट तक भौंहें चढ़ाकर दृष्टि-