सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 32, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 32

प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ११
सूत्रधारः—( सवैलक्ष्यस्मितम् ) मारिष, शरत्समयवर्णनाशंसया हंसा
धार्तराष्ट्रा इति व्यपदिश्यन्ते ।
पारिपार्श्विकः—न खलु न जाने ! किन्त्वमङ्गलाशंसयाऽस्य वा वचनस्य
यत्सत्यं कम्पितमिव मे हृदयम् ।
सूत्रधारः—मारिष ननु सर्वमेवेदानीं प्रतिहतममङ्गलं स्वयम्प्रतिपन्न-
दौत्येन सन्धिकारिणा कंसारिणा । यथा हि—
निर्वाणवैरदहनाः प्रशमादरीणां
नन्दन्तु पाण्डुतनयाः सह माधवेन ।
'शान्तं पापमनिर्देश्य' इति वचनात् ।
मारिष=आर्य !, 'आर्ये मारिषमार्षकौ' इति शब्दार्णवः । शरत्समयवर्णना-
शंसया = शरत्कालकथनप्रसङ्गेन, 'हंसा धार्तराष्ट्रा' इति व्यपदिश्यन्ते=धार्तराष्ट्रपदेन
हंसा गृह्यन्त इत्यर्थः । तदा कथमुच्यते शान्तं पापमिति ।
न खलु न जाने=जानाम्येव, नञ्द्वयेन ज्ञानमेव बोध्यते । खलुशब्दो वाक्या-
लङ्कारे । वः = युष्माकम्, अस्य वचनस्य अमङ्गलाशंसया = अशुभकथनेन, अशि-
वार्थप्रतिपादकत्वेनेत्यर्थः । यत्सत्यमित्यसम्भाव्यार्थसूचकम् तस्य च कम्पनक्रियाया-
मन्वयः । तथा च असम्भाव्यरूपमनाश्रयमिव मम हृदयं जातमिति भावः ।
स्वयम्प्रतिपन्नदौत्येन = स्वयमेव प्रतिपन्नम् अङ्गीकृतं, दौत्यम् दूतता प्रपञ्चक्रिया
येन तेन, सन्धिकारिणा = सन्धिकारकेण कंसारिणा = कृष्णेन, इदानीं, ननु=निश्चयं,
सर्वमेव = निखिलमेव, अमङ्गलं प्रतिहतम् = विनाशितमित्यन्वयः ।
अन्वय - अरीणाम्, प्रशमात्, निर्वाणवैरदहनाः, 'पाण्डुतनयाः, माधवेन सह,
नन्दन्तु, रक्तप्रसाधितभुवः, क्षतविग्रहाः, च, सभृत्याः, कुरुराजसुताः, स्वस्थाः, भवन्तु ॥
निर्वाणेति—निर्वाणवैरदहनाः = वैरं दहन इवेति वैरदहनः, निर्वाणः==अस्तं-
गतः वैरदहनः येषां, तत्र हेतुः अरीणां प्रशमादिति तथा च शत्रूणां शान्तिप्रापणा-
सूत्रधार—( लज्जित सा कुछ हँसता हुआ ) आर्य्य ! मैने शरद्वर्णन के प्रकरण में
धार्तराष्ट्र का प्रयोग राजहंसों के लिये किया है फिर आप मुझे निषेध क्यों कर रहे है ।
पारिपार्श्विक—भाई ! ऐसा नहीं कि मैने समझा ही न हो किन्तु सम्भावना न होने
पर भी अमङ्गलप्रतिपादक वाक्य की आशङ्का ही में मेरा हृदय दहल सा गया है ।
सूत्रधार—आर्य ! इस समय श्रीकृष्ण भगवान् ने सन्धि कराने के लिये दूतभाव
स्वीकार कर सम्पूर्ण विघ्नों को शान्त कर दिया है क्योंकि :—
सन्धि हो जाने के कारण शत्रुओं के साथ पाण्डुपुत्र, जिनका अग्निरूपी विद्वेष शान्त