सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

[पृष्ठ ४४४]

सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा... ( अथर्व० शौनकंसंहिता १६।६।१ ),
'छन्दांसि जज्ञिरे तस्मात्' (ऋक् सं० १०।६०।६ ), 'छन्दो ह जज्ञिरे
तस्मात्' (अ० सं० १६।६।१३), 'त्रिपादूर्ध्वं उदत्' 'ततो विष्वङ्'
(ऋक् सं० ४) 'त्रिभिः पद्भिद्यौमरोहत्' तथा 'व्यक्रामत् विष्वङ्'
(अथर्व २), 'एतावानस्य महिमातो' (ऋक् सं० ३), 'तावन्तोऽस्य
महिमानस्ततो' (अथर्व सं० ३), उतामृतत्वस्येशानो' (ऋक् सं० २ ),
'उतामृतत्वस्येश्वरो' (अथर्व सं० ४), 'ऊरू तदस्य यद्वैश्यः' (ऋक्
सं० १२), 'मध्यं तदस्य यद्वैश्यः' (अथर्व सं० ६), -'को बाहू का
ऊरू पादा' (ऋक् सं० ५), इति सर्वत्र आनुपूर्व्या असमानत्वेऽपि
अर्थस्य समानत्वम् । इदमेव शब्दानुपूर्व्या अनित्यत्वम्, अर्थस्य
च नित्यम् ।
यदुक्तम् - "स्वरो नियत आम्नाये' 'अस्य वामशब्दस्य वर्णानुपूर्वी
खल्वप्याम्नाये नियता अस्य वामशब्दस्य' इत्याम्नाये वर्णानुपूर्व्या
नित्यत्वमेवोक्तम् । तथा च भाष्योक्तिषु परस्परविरोधः स्यात्, आम्नाय-
छन्दःशब्दयोः समानार्थकत्वे आनुपूर्व्या अपि नित्यत्वमनित्यत्वमेव
वा स्यात् । न च काठकादिसंहितानां छन्दस्त्वं शाकलादिसंहितानामा-
म्नायत्वमिति वाच्यम्; 'यत्र ब्रह्मापयमानः छन्दस्यां वाचं वदन्' (ऋक्
सं० ९।११२।६), 'छन्दं वचः' (साम० पूर्वा० ३।३।३ ), 'छन्दांसि
जज्ञिरे' (शुक्लयजुः) इत्यादि विरोधादि"ति । तन्न; नियतेत्यस्य
निश्चितार्थकत्वात् । 'एतस्मिंश्चातिसृष्टिशब्दस्य प्रयोगविषये ते ते
शब्दास्तत्र तत्र नियतविधया दृश्यन्ते' इत्यादिषु नियतशब्दस्य निश्चिता-
र्थतादर्शनात् । नात्र नित्यार्थको नियतशब्दः । अस्मिन् प्रसङ्गेऽपि "देशः
खल्वप्याम्नाये नियतः, 'श्मशाने नाध्येयम्' 'चतुष्पथे नाध्येयम् ।"
कालः खल्वप्याम्नाये नियतः - 'नामावास्यायामध्येयम्, न चतुर्दश्याम् ।'
पदैकदेशः खल्वप्याम्नाये दृश्यते - 'अस्यवामीय'मिति । सर्वत्र नियत-
शब्दो निश्चितार्थकः ।


[पृष्ठ ४४५]

किञ्च-'श्मशाने नाध्येयमि'ति वचनं न सामाजिकसम्मतेष्वाम्नायेषु
दृश्यते । एवमेव - 'अस्य वामीयमिति पदैकांशोऽपि न सामाजिक-
सम्मतासु संहितासु दृश्यते । लौकिकेष्वपि पतन् नियतवाचो युक्तयो
नियतानुपूर्व्या भवन्ति १।१६।४ इति निरुक्ते पितापुत्रौ इन्द्राग्नी
इत्यानुपूर्व्या नियतत्व वक्तुं शक्यं न नित्यत्वम् । नियतशब्दस्य 'तुष्यतु
दुर्जन' न्यायेन नित्यार्थकत्वेऽपि न विरोधः 'अथवा नेदमेव नित्यलक्षणं
ध्रुवं कूटस्थमविचाल्यनपायोपजनविकारि यत्तन्नित्यम्, तदपि नित्यं
यस्मिंन् तत्त्वं (तद्भावो ) न विहन्यते ।' इति महाभाष्यम् । अन्यत्र च
'अयं खलु नित्यशब्दो नावश्यं कूटस्थे अविचालिषु भावेषु वर्तते । किं
तर्हि ? आभीक्ष्ण्येऽपि वर्तते । तद्यथा - 'नित्य प्रहसितः, नित्य
प्रजल्पित ।' तेनानित्येऽपि नित्यशब्दो महाभाष्ये प्रयुक्तः । तदुक्तं
नागेशेन 'सा आनुपूर्वी त्कल्पसमाप्तिपर्यन्तं नियता इत्यर्थः ।' गौतम-
सूत्रे (२ ।१६८) 'अतीतानागतसम्प्रदायाभ्यासप्रयोगाविच्छेदेन वेद-
नित्यत्वं' इति वात्स्यायनः ।
अस्मिन् पक्षे गोतम-वात्स्यायनादिनैयायिकादिवत् महाभाष्यकार-
स्यापि वेदपौरुषेयत्वादित्वमेव सिद्धयति । कल्पपर्यन्तस्थायित्वेन तु
नित्यत्वापौरुषेयत्ववादित्वमौपचारिकमेव तच्च न केवलं शाखान्तरीय-
पाठभेदेन असमानानुपूर्विकत्वेनैव, किन्तु एकस्यामपि शाखायां कल्पान्त-
रीयासमानानुपूर्विकत्वेनापि पौरुषेयत्वमनित्यत्वञ्च । अत एव 'तेन
कृतम्' इत्यनेनैव प्रत्ययो न 'तेन प्रोक्तमि'ति छन्दोऽर्थे सम्भवति ।
छन्दस्त्वस्य शब्दार्थोभयवृत्तित्वेन अर्थस्य नित्यत्वेनैव नित्यत्वम्, शब्दा-
नुपूर्वी रूपेण त्वनित्यत्वमेव । अस्मिन् पक्षे नित्यत्वेनियतशब्दोऽपि
प्रलयपर्यन्तस्थायित्वेन चरितार्थः । निश्चितार्थको नियतशब्दोऽपि
तत्तत्कल्पे तत्तच्छाखासु च निश्चितानुपूर्वीकत्वेनैव नियतता, न
नित्यानुपूर्वीकत्वेनेति ।
वस्तुतस्तु - नित्यानां विभूनां वर्णानां देशकालकृतपौर्वापर्यलक्षण-
क्रमासम्भवात् अनित्यानां वर्णाभिव्यक्तीनामेव देशकालकृतपौर्वापर्य-

४४६ वेदस्वरूपविमर्शे
रूपानुपूर्वी सम्भवति । सा च सर्वथा अनित्यैव सम्भवति, न नित्या ।
अत एव शिक्ष्यमाणा नर्तकी यथा शिक्षकगात्रविक्षेपमनुकरोति तथैव
माणवकोऽप्याचार्योच्चारितां मन्त्रानुपूर्वीमनुकरोति । अनुकरणीयगात्र-
विक्षेपादनुकर्तृविक्षेपादनुकर्त्या गात्रविक्षेपभेदवत् आचार्योच्चारिताया
आनुपूर्व्या माणवकोच्चारितानुपूर्व्या अपि भेद एव । तथापि प्रति-
कल्पं समानरूपत्वात् एकरूपत्वात् निश्चितत्वाच्च आनुपूर्व्याः प्रवाह-
रूपेण नित्येति व्यपदिश्यते । प्रतिकल्पं तद्भेदेन चासमानरूपत्वेन
अनिश्चितत्वात् अनित्येत्युच्यते । तत्रानुपूर्व्या अनित्यता नैयायिकादि-
रीत्या, नियतता किञ्च मीमांसकरीत्या सङ्गच्छते । अस्मिन् पक्षे 'तेन
प्रोक्तमि'त्यनेनैव प्रत्ययः । बहूनां प्रवक्तृत्वेऽपि कठादिविशिष्टनाम्नैव
प्रत्ययः । यथा बहूनां मातृत्वेऽपि देवदत्तमातेति समाख्या भवति,
तद्वत् । अत्र पक्षे 'समाख्या प्रवचनात्' इति जैमिनिसूत्रं 'वाचा विरूप
नित्यया' इति मन्त्रश्च आञ्जस्येन सङ्घटते ।
सर्वथाऽपि 'पदकारैर्नाम लक्षणमनुवर्त्यमि'ति भाष्यं प्रौढिवादाभि-
प्रायकमेव ज्ञातव्यम् । पदपाठपौरुषेयत्ववादिनापि पदपाठस्य शाकल्या-
दृषिकर्तृकत्वाङ्गीकारात् । पदक्रममूलिका एव जटा मालाद्या अष्टौ विकृ-
तयोऽपि । तासामपि पौरुषेयत्वे वशिष्ठ-विश्वामित्र-पराशराष्टावक्राद्यृ-
षिकर्तृकत्वमेव । ऋषयश्च लक्ष्यैकचक्षुष्का एव भवन्ति, न लक्षणैक-
चक्षुष्काः । तेन लक्षणान्येव ताननुवर्तेरन्, न ते लक्षणानुवर्तिनः ।
ऋषिकृतपदानां छन्दस्तुल्यत्वेन न तत्र लक्षणविरोधो दूषणाय भवति,
'छन्दोवत् सूत्राणि भवन्ति' इत्युक्तेः । तदर्थमेव 'पृषोदरादीनि यथोप-
दिष्टम्' । (पा० सू० ६ । ३ । १०६) इति सूत्रञ्च ।
न च पाणिन्याद्युक्तय एव तथाभूता इति वाच्यम्; वाल्मीक्याद्युक्ती-
नामपि आर्षत्वेनैव लक्षण-विरोधपरिहारदर्शनात् । 'मनायेतरायवा'
इत्याद्युदाहरणानि ।
'आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् ।
अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥
ब्राह्मणानां वेदत्वविमर्शः ४४७
अतीन्द्रियानसंवैद्यान् पश्यन्त्यार्षेण चक्षुषा ।
ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥'
इति 'पृषोदरादीनि' सूत्रे कैयटः ।
छन्दसि दृष्टानुविधिर्हि भवति । अत एव 'व्यत्ययो बहुलम्' ( पा०
सू० ३ । १ । ८५ ) इत्यत्र भाष्यम्—
'सुप्तिङुपग्रहलिङ्गन्नराणां कालहलच्स्वरकर्तृ यङाञ्च ।
व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन ॥' इति ।
वस्तुतस्तु पदपाठस्यापौरुषेयत्वमित्युक्तमेव । 'सूर्यऋषिर्मन्त्रकृत्'
(ऐ० ब्रा० ६।१) 'यत्र धीरा मनसा वाचमक्रत' (ऋ० सं० १०।७१।२)
'ऋषिः कुत्सः कर्ता भवति स्तोमानामित्युपमन्यवः' (नि० ३।२।५)
'ऋषे मन्त्रकृतां स्तोमैः' (ऋक्संहिता ९।११४।२) इत्यादिप्रमाणैः यथा
मन्त्राणां कर्तृत्वश्रवणेऽपि सम्प्रदायप्रवर्तनमेव अर्थः, तथैव ऐतरेय-
याज्ञवल्क्यादीनामपि कर्तृत्वश्रवणं सम्प्रदायप्रवर्तन एव पर्यवस्यति ।
वस्तुतः पदपाठस्यापौरुषेयत्वमित्युक्तमेवेति आस्तां विस्तरः ।
इति पदवाक्यप्रमाणपारावारीणपरमहंसपरिव्राजकाचार्यवर्य अनन्त-
श्रीस्वामिहरिहरानन्दसरस्वती महाराज विरचितः
वेदस्वरूप विमर्शः पूर्णतामभजत् ।
॥ ॐ तत्सत् ॥

पुस्तक प्राप्ति स्थान
◆
१-सन्तशरण वेदान्ती
धर्म संघ
दुर्गाकुण्ड, वाराणसी 1
◆
२-श्री बाबूलाल गनेड़ीवाले
कमला स्टोर
काटन स्ट्रीट, कलकत्ता ।
◆
३-श्री मोतीलाल बनारसीदास
चौक, वाराणसी।
◆
४-श्री मास्टर खेलाड़ीलाल एण्ड सन्स
कचौड़ीगली, वाराणसी ।
◆
५-श्री भारती विद्या प्रकाशन
कचौड़ीगली, वाराणसी ।
◆
६-धर्मसंघ महाविद्यालय
७ इन्द्रप्रस्थ मार्ग सिविल लाइन दिल्ली ।