वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 16, कुल 237 में से
संदर्भ में पढ़ें६ वेदस्वरूप-विमर्शः
शरीरस्योपभोगसाधनतया शरीराद्बहिर्गतमपि चक्षुर्ज्ञानाख्यं
भोगं जनयतीति न बुद्धाववागच्छति। निर्गत्य दूरं गतस्य चक्षुस्तत्प्रदेश-
स्थान् लघूनन्यानपि पदार्थान् कुतो न गृह्णाति ? शक्तिस्स्वस्य तादृशी
यत्सूर्यमण्डलपर्यन्तमपि गत्वा सूर्यमण्डलमपि दर्शयति, परं तत्रस्था-
नन्यानर्थान्न दर्शयति। यथा दूरस्थं पर्वत पश्यामस्तथा तत्रैव स्थितानि
लघूनि तृणान्यपि कुतो न पश्यामः ? चाक्षुषो रश्मिरेव कश्चित् प्रयाति,
न सर्वं चक्षुरिति चेत्; समीपेऽपि वस्तुनि चाक्षुषो रश्मिरेव गच्छति,
तत्र कुतः सूच्यादीन्यपि पश्यति ? दूरस्थञ्च वस्तु बृहदतिलघु कुतः
पश्यामः ? चक्षुषोऽङ्गुल्यादिना पीडने यः पदार्थो यत्र स्थितस्तस्मात्
किञ्चिद् दूरे अथ उच्चैस्तिर्यग्वा दृश्यते, तत् कुतः ? चाक्षुषो रश्मिरेव
तत्र तिर्यग्भूत इति चेदास्तां तत्, परं यत्र रश्मिर्गतस्तत्र पदार्थ एव यदा
न विद्यते तदा कथं दृश्यते" इति। तन्न; शरीरावच्छिन्नस्यैव भोक्तृत्वे-
नादोषात् । तथा हि—चक्षुषो विषयसमर्पकतया बहिर्गमनेऽपि 'सूर्य-
मण्डलज्ञानवानहमिति ज्ञानवत्त्वं ज्ञानाधिकरणस्य शरीरावच्छिन्नस्य
आत्मन एव सम्भवति।
यदुक्तम्—"सूक्ष्मस्य मनसो हृदयस्थत्वेन तत्सहयोगाभावान्न
बहिर्गतेन चक्षुषा रूपग्रहणं संभवती"ति। तदप्यसङ्गतम्; चक्षुषो
मनोयोगाभ्युपगमेन दोषाभावात् ; दीर्घस्य नेत्ररश्मेर्विषयदेशगमनेऽपि
शरीरसम्बन्धाविच्छेदात् ।
अत एव यदुक्तम्—"मनसो बहिर्गमनमुपहासास्पदम्, मनसो
बहिर्गमने शरीरधारणासंभवादि"ति। तदपि न; 'तन्मनोऽसृजदि'ति
श्रुत्या मनसः कार्यत्वेन नाणुत्वम्, किन्तु मध्यमपरिमाणत्वमेवेति तस्य
तडागोदकस्येव इन्द्रियप्रणालिकया विषयदेशगमनेऽपि शरीरसम्बन्धा-
विच्छेदेन तस्य धारणसंभवात् ।
वेदान्तमतरीत्या चक्षुःप्रणालिकया सूर्यमण्डलपर्यन्तं निर्गतस्यान्तः-
करणस्य विषयस्य चैकदेशस्थत्वेन अन्तःकरणावच्छिन्नविषयावच्छिन्न-
चैतन्ययोरैक्येन प्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वाभावेन विषयज्ञानं
वेदस्वरूप-विमर्शः ७
प्रमातृनिष्ठं भवति, तस्य च देहे प्राकट्यं भवतीति कृत्वैव देहस्य
भोगायतनत्वमुच्यते ।
सांख्ययोग-मतरीत्या तु यथा ग्रामाध्यक्षो ग्रामीणेभ्यः करमादाय
विषयाधिपतये समर्पयति, विषयाध्यक्षो मन्त्रिणे, मन्त्री च सर्वाधि-
पतये तथैवेन्द्रियैर्विषयाश्चित्ताय समर्प्यन्ते, तेन बुद्धयै, सर्वार्थकारिण्या
बुद्ध्या च स्वप्रतिबिम्बिते पुरुषे, प्रतिबिम्बतादात्म्याभिमानेन पुरुषोऽपि
तद्वाराव स्वात्मनि विषयसम्बन्धं मनुते । जबाकुसुमसम्वन्धेन स्फटिक-
लौहित्यमिवेन्द्रियोपस्थापितैर्विषयैः बुद्धेर्विषयाकारता संपद्यते, चिच्छाया-
पन्नायां बुद्धौ विषयोपरागेण चिच्छायाऽप्युपरज्यते । छायायामुपरक्तायां
बिम्बरूपः पुरुषः स्वात्मनि विषयोपरागं मनुते, यथा मलिने दर्पणे
मलिनं प्रतिमुखं दृष्ट्वा मलिनं मे मुखमिति मत्वा शोचति, तद्वत् ।
अत एव यदुक्तम्—"चक्षुषा रूपं प्रकाश्यते, न रूपमानीयते,
तस्मिंस्तच्छक्तेरभावादि"ति । तदपि न; चितेर्निश्चेयप्रायेण वस्तु-
रूपभेदानेतुं शक्यते तदा पदार्थत्वादिनिन्द्रियैर्भोक्तुरर्थे रूपादि समर्पणे-
बाधाभावात् ।
इदमिह ज्ञातव्यम्—कैश्चित्तु गोलकमेव चक्षुरित्युच्यते । तथा हि—
"गोलके चिकित्साप्रयोगाद्विषयोपलब्धैर्गोलकगुणदोषानुवर्तितया कृष्णां
सारगोलकमेव चक्षुः, न तु तेजस्तस्यानुपलभ्यमानत्वात् । वेगवताऽपि
तेजसा योजनशतसहस्रव्यवहितचन्द्रसूर्यतारकादि कथमतिशीघ्रं ग्रहीतुं
शक्येत, कथञ्चाल्पकं नयनं तेजः मिहिरमहसा प्रतिहतं न भवेत् ,
कथञ्च स्फटिकाभ्रान्तरितपदार्थोपलब्धिस्तेन स्यात्।" परमेतन्न सङ्गतम् ;
कुठारादिकारकवदिन्द्रियाणामपि प्राप्यकारित्वेन कृष्णसारगोलके तद-
संभवेन तदनुपपत्तेः । अपि च—न गोलकानामिन्द्रियत्वं संभवति, कर्ण-
शष्कुलीरहितस्यापि सर्पस्य शब्दोपलम्भात् । एवमेव गोलकादिहीनानां
वृक्षाणामपि दर्शनश्रवणाद्युपलम्भाच्च तदनुपपत्तिः । 'तस्मात् पश्यन्ति
पादपाः" इत्यादिशास्त्राणि विज्ञानञ्चाधुनिकमेतमवमानयन्ति। अश्रुष्कस्य
वृक्षस्य छेदनप्रतिषेधेन प्राणित्वावगमाच्च ।