वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 14, कुल 237 में से
संदर्भ में पढ़ें२ वेदस्वरूप-विमर्शः
यते इति ज्ञानम्, ज्ञानसाधनम्, ज्ञानकर्म, ज्ञानाधिकरणम् ; सत्ता,
सत्तासाधनम्, सत्ताकर्म, सत्ताधिकरणम् ; स्थितिः, स्थितिसाधनम्,
स्थितिकर्म, स्थित्यधिकरणञ्चेत्यादि सर्वं वेदशब्दार्थतया व्याख्यातुं
शक्यते । तत्र ग्रन्थात्मकैषु वेदेषु शाब्दज्ञानसाधनत्वमेव समन्वयायन्ति
प्रायेण विद्वांसः । अन्वेषणप्रक्रियया परिशील्यमाने तु सर्वविधज्ञान-
साधनत्वम्, ज्ञानरूपत्वम्; सत्तासाधनत्वम्, सत्तारूपत्वम् ; स्थितिसाध-
नत्वम्, स्थितिरूपत्वम् चेत्याद्यपि वेदशब्दार्थे समन्वितं भवति ।
अत्रोच्यते - यद्यपि 'सर्वे सर्वार्थवाचकाः' इति कामदोग्धृत्वात्
शब्दानां व्याकरणकोषादिबलाच्चानेके विलक्षणाश्च वेदशब्दार्थाः संभ-
वन्ति; तथापि 'योगाद्रू ढिर्बलीयसी' इति नयेन योगरूढार्थ एव स्वाभा-
विकः । विनोदाय तु यथार्थं कामं गृह्णन्त्वन्वेष्वर्थाः । प्रसङ्गानुसार-
मन्यार्थोऽपि । एकश्च वेदशब्द आद्युदात्तः शब्दराशेर्बोधकः; अपरश्च
अन्तोदात्तः कुशमुष्ट्यादेर्बोधकः 'वेदं कृत्वा वेदिं करोति' इत्यत्र । अत
एव उब्छादिगणो ऋष्पादिंगणे च वेदशब्द उभयत्र पाणिनिना पठितः ।
अत एव मन्त्रब्राह्मणात्मकशब्दराशावेव मुख्यो वेदशब्दः । स एवार्यजातेः
सर्वस्वम् । तन्मूलिकैव भारतीया संस्कृतिः । तमेवाधारीकृत्य ज्ञानविज्ञा-
नादिकर्माणि साधयितुं महतां प्रयत्नः । शब्दराश्यात्मकं वेदमनाश्रित्य तु
पूर्वोक्तव्युत्पत्तिलभ्यमेकमप्यर्थं कश्चिन्न साधयितुं शक्नोतीति स एव
मुख्यशब्दार्थोऽभ्युपेतव्यः ।
अनन्ता वै वेदाः
यदपि - "भरद्वाजो ह त्रिभिरायुर्भिर्ब्रह्मचर्यमुवास । तं ह जीर्णं
स्थविरं शयानमिन्द्र उपव्रज्योवाच - भरद्वाज यत्ते चतुर्थमायुर्दद्यां
किमेतेन कुर्या इति । ब्रह्मचर्यमेवैतेन चरेयमिति होवाच । तं
ह त्रीन् गिरिरूपान विज्ञातानिव दर्शयाञ्चकार । तेषां हेकैकस्मा-
न्मुष्टिमाददे । सहोवाच भरद्वाजेत्यामन्त्र्य-वेदा वा एते । अनन्ता वै
वेदाः । एतद्वा एतैस्त्रिभिरायुर्भिरन्ववोचथाः' इति ।
(तै० ब्रा० ३ । १० । ११ । ३-४ )
वेदस्वरूप-विमर्शः ३
नहि इदानीमुपलभ्यमाना वेदा अनन्ताः सन्ति । तस्माद्दिज्ञायते
"यत्किमपि तत्त्वान्तरमेव वेदपदव्यपदेश्यं यदनन्तं भवतीति" उच्यते ।
तन्न; 'भरद्वाजो ह' इत्यादिसमुद्धृतवचनविरोधात्, शब्दराश्यात्मक-
वेदाध्ययनार्थमेव ब्रह्मचर्यग्रहणविधिप्रसिद्धिभ्याम् । किञ्च 'अन्ववोचथा'
इत्यनुवचनस्य शब्दराशिग्रहण एवाञ्जस्यम् । नहि तत्त्वान्तरस्य तन्
सम्भवति । न चोपलभ्यमानस्य वेदस्यानन्त्यं नास्तीति वाच्यम् ; देव-
र्ष्यादिग्राह्यस्य वेदस्यानन्त्ये बाघाभावात् । अद्यत्वे तु मानवबुद्धिग्राह्याणा-
मपि सहस्राधिकशाखानां विपरिलोपो दृश्यते, महाभाष्यकारादिभि-
र्वेदस्य एकत्रिंशदुत्तरैकादशशतशाखानां चर्चितत्वात् । देवादिबुद्धि-
ग्राह्यास्तु वेदा अनन्ता एव । अत एव -
'इन्द्रादयोऽपि यस्यान्तं न ययुः शब्दवारिधेः ।'
इति वचनं श्रूयते ।
अपि च-अनन्तप्रपञ्चस्रष्टेः ईश्वरज्ञानपूर्वकत्वेन तदनन्तज्ञानेष्वनु-
विद्धानां शब्दानामानन्त्यम्-
'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।'
इति अभियुक्तोक्तेः । अत एव ईश्वरीयनित्यानन्तज्ञानेषु अनुविद्धाः
शब्दरूपा वेदा अपि नित्या अनन्ताश्चेति सर्वमनवद्यम् । अत एव च
'वेदैरेव ब्रह्मा सृष्टि करोति' इति श्रुतिस्मृतिषु, पुराणेषु, च प्रसिद्धिराञ्ज-
स्येनोपपद्यते । नात्र वेदशब्दव्यपदेश्यं किमपि तत्त्वान्तरं निर्दिष्टम् ,
'वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे', 'शब्द इति चेन्नातः
प्रभवात् प्रत्यक्षानुमानाभ्याम्' इति 'शब्द'पदनिर्देशात् । अत एव
'भूरिति व्याहरत्, तस्माद्भूमिमसृजत' इत्यादिभिः शब्दव्याहरणपूर्विका
सृष्टिः श्रूयते । यथा लोके कुलालो घटशब्देन घटं स्मृत्वा दण्डचक्रादि-
व्यापारेण तं सृजति तथैव परमेश्वरोऽपि तैस्तैः शब्दैस्तांस्तानर्थान्
स्मृत्वा सृजति ।
ऋचोमयः सूर्यः
एवमेव "वेदैरशून्यैस्त्रिभिरेति सूर्यः" इत्यपि नानुपपन्नम् । त्रयीप्रोक्त-
कर्मफलात्मकत्वात् सूर्यस्त्रिभिरशून्यः स्यादिति युक्तमेव । सवनप्राधा-