सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 87, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 87

७८ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० २५ २६श्लो०८१-९२।१-४]
( स्वरोत्पत्तिनिरूपणम् )

ततः स भगवान्ब्रह्मा कृष्णाजिनविभूषितः । मनोऽग्रे सोऽसृजद्देवो भूतानां धारणां ततः ॥
जिह्वां सरस्वतीं चैव ततस्तां विश्वरूपिणीम् ॥ ८१
भृगुमङ्गिरसं दक्षं पुलस्त्यं पुलहं क्रतुम् । वसिष्ठं च महातेजाः ससृजे सप्त मानसान् ॥ ८२
पुत्रानात्मसमान्यन्यान्सोऽसृजद्विश्वसंभवान् । तेषां भूयोऽनुमार्गेण गावो वक्त्राद्विजाज्ञिरे ॥ ८३
ओंकारप्रमुखान्वेदानभिमान्याश्च देवताः । एवमेतान्यथा प्रोक्तान्ब्रह्मा लोकपितामहः ॥ ८४
दक्षाद्यान्मानसान्पुत्रान्प्रोवाच भगवान्प्रभुः । प्रजाः सृजत भद्रं वो रुद्रेण सह धीमता ॥ ८५
अनुगम्य महात्मानं प्रजानां पतयस्तदा । वयमिच्छामहे देव प्रजाः स्रष्टुं त्वया सह ॥
ब्रह्मणस्त्वेष संदेशस्तव चैव महेश्वर ॥ ८६
तेनैवमुक्ते भगवाञ्छ्रुद्रः प्रोवाच तान्प्रभुः । ब्रह्मणोऽऽत्मजा मह्यं प्राणान्गृह्य च वै सुराः ॥ ८७
कृत्वाऽग्रजोऽग्रजानेतान्ब्राह्मणानात्मजान्मम । ब्रह्मादिस्तम्बपर्यन्तान्सप्त लोकान्ममा(दा)त्मकान्
भवन्तः स्रष्टुमर्हन्ति वचनान्मम स्वस्ति वः ॥ ८८
तेनैवमुक्ताः प्रत्यूचु रुद्रमाद्यं त्रिशूलिनम् । यथाऽऽज्ञापयसे देव तथा तद्वै भविष्यति ॥ ८९
अनुमान्य महादेवं प्रजानां पतयस्तदा । ऊचुर्दक्षं महात्मानं भवाञ्छ्रेष्ठः प्रजापतिः ।
त्वां पुरस्कृत्य भद्रं ते प्रजाः स्रक्ष्यामहे वयम् ॥ ९०
एवमस्त्विति वै दक्षः प्रत्यपद्यत भाषितम् । तैः सह स्रष्टुमारेभे प्रजाकामः प्रजापतिः ॥
सर्गस्थिते ततः स्थाणौ ब्रह्मा सर्वमथासृजत् ॥ ९१
अथास्य सप्तमेऽतीते कल्पे वै संबभूवतुः । ऋभुः सनत्कुमारश्च तपोलोकनिवासिनौ ॥
ततो महर्षीनन्यान्स मानसान्सृजत्प्रभुः ॥ ९२

इति श्रीमहापुराणे वायुप्रोक्ते मधुकैटभोत्पत्तिविनाशवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥

आदितः श्लोकानां समष्ट्यङ्काः–१९२८


अथ षड्विंशोऽध्यायः ।

स्वरोत्पत्तिनिरूपणम् ।

सूत उवाच--
अहो विस्मयनीयानि रहस्यानि महामते । त्वयोक्तानि यथातत्त्वं लोकानुग्रहकारणात् ॥ १
तत्र वै संशयो मह्यमवतारेषु शूलिनः । किं कारणं महादेवः कालं प्राप्य सुदारुणम् ॥
हित्वा युगानि पूर्वाणि अवतारं करोति वै ॥ २
अस्मिन्मन्वन्तरे चैव प्राप्ते वैवस्वते प्रभो । अवतारं कथं चक्रे एतदिच्छामि वेदितुम् ३
न तेऽस्त्यविदितं किंचिदिह लोके परत्र च । भक्तानामुपदेशार्थं विनयात्पृच्छतो मम
कथयस्व महाप्राज्ञ यदि श्राव्यं महामते ॥ ४