सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 81, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 81

७२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० २४ श्लो० १०६–१३१]
(शार्वस्तवः)

सुचारुचारुकेशाय ऊर्ध्वचक्षुःशिराय च । नमः पशूनां पतये गोवृपेन्द्रध्वजाय च ॥ १०६
प्रजापतीनां पतये सिद्धानां पतये नमः । (*दैत्यदानवसंघानां रक्षसां पतये नमः ॥ १०७
गन्धर्वाणां च पतये यक्षाणां पतये नमः । ) गरुडोरगसर्पाणां पक्षिणां पतये नमः ॥ १०८
गोकर्णाय च गोष्ठाय शङ्कुकर्णाय वै नमः । वराहायाप्रमेयाय रक्षोधिंपतये नमः ॥ १०९
नमोऽप्सरसां पतये गणानां पतये नमः । अम्भसां पतये चैव तेजसां पतये नमः ॥ ११०
नमोऽस्तु लक्ष्मीपतये श्रीमते हिंमते नमः । बलाबल्समूहाय सक्षोभ्यक्षोभणाय च ॥ १११
दीर्घशृङ्गेकशृङ्गाय वृषभाय ककुद्मिने । नमः स्थैर्याय वपुषे तेजसे सुप्रभाय च ॥ ११२
भूताय च भविष्याय वर्तमानाय वै नमः । सुवर्चसेऽथ वीराय शूराय क्षतिगाय च ॥ ११३
वरदाय वरेण्याय नमः सर्वगताय च । नमो भूताय भव्याय भवाय महते तथा ॥ ११४
सर्वाय महतेऽजाय नमः सर्वगताय च । जनाय च नमस्तुभ्यं तपसे वरदाय च ॥
नमो वन्द्याय मोक्षाय जनाय नरकाय च ॥ ११५
भवाय भजमानाय इष्टाय याजकाय च । अभ्युदीर्णाय दीप्ताय तत्त्वाय निर्गुणाय च ॥ ११६
नमः पाशाय हस्ताय नमः स्वाभरणाय च । हुताय अपहुताय प्रहुतपाशिताय च ॥ ११७
नमस्त्विष्टाय मूर्ताय ह्यभिष्टेमर्त्विजाय च । (÷नम ऋताय सत्याय भूताधिपतये नमः ॥ ) ११८
सदस्याय नमश्चैव दक्षिणावभृथाय च । अहिंसायैाथ लोकानां पशुमन्त्रौषधाय च ॥ ११९
नमस्तुष्टिप्रदानाय त्र्यम्बकाय सुगन्धये । नमोऽस्त्विन्द्रियपतये परिहाराय स्रग्विणे ॥ १२०
विधाय विधुरूपाय विश्वतोऽक्षिमुखाय च । सर्वतःपाणिपादाय रुद्रायाप्रमिताय च ॥ १२१
नमो हव्याय कव्याय हव्यकव्याय वै नमः । नमः सिद्धाय मेध्याय चेष्टाय त्वव्ययाय च ॥ १२२
सुवीराय सुवोराय सक्षोभ्यक्षोभणाय च । सुमेधसे सुपजाय दीप्ताय भास्कराय च ॥ १२३
नमो नमः सुपर्णाय तपनीयनिभाय च । विरूपाक्षाय त्र्यक्षाय पिङ्गलाय महौजसे ॥ १२४
दृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च । नमो धूम्राय श्वेताय कृष्णाय लोहिताय च ॥ १२५
पिशिताय पिशङ्गाय पीताय च निषङ्गिणे । नमस्ते सविशेपाय निर्विशेषाय वै नमः ॥ १२६
= नम इज्याय पूज्याय चोपजीव्याय वै नमः । नमः क्षेम्याय वृद्धाय वत्सलाय नमो नमः ॥
नम ऋताय सत्याय सत्यासत्याय वै नमः ॥ ) १२७
नमो वै पद्मवर्णाय मृत्युघ्नाय च मृत्यवे । नमः श्यामाय गौराय कद्रवे रोहिताय च ॥ १२८
( × नमः कान्ताय सन्ध्याभ्रवर्णाय वायुरूपिणे । ) नमः कपालहस्ताय दिग्वस्त्राय कपर्दिने ॥ १२९
अप्रमेयाय शर्वाय ह्यवध्याय वराय च । पुरस्तात्पृष्ठतश्चैव विभ्रान्ताय कृशानवे ॥ १३०
दुर्गाय महते चैव रोधाय कपिलाय च । अर्कप्रभशरीराय बलिने रंहसाय च ॥ १३१


* धनुश्चिह्नान्तर्गतग्रन्थो क. पुस्तके नास्ति । ÷ इदमर्धं ख. ग. घ. ङ. पुस्तकेषु नास्ति ।
= अस्मिन्नर्धस्थाने इदमर्धं दृश्यते ख. घ. ङ्. पुस्तकेषु । महासंध्याभ्रवर्णाय चारुरूपाय दक्षिणे ।
× धनुश्चिह्नान्तर्गतग्रन्थो क. पुस्तके नास्ति ।