वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 69, कुल 465 में से
संदर्भ में पढ़ें६० श्रीमद्वैपायनमुनिप्रणीतम्— [अ० २३ श्लो० ४६-६७]
(माहेश्वरावतारयोगः)
महेश्वर उवाच—
रहस्यं सर्वमन्त्राणां पावनं पुष्टिवर्धनम् । शृणुष्वैतत्परं गुह्यमादिसर्गे यथातथम् ॥ ४६
अयं यो वर्तते कल्पो विश्वरूपस्त्वसौ स्मृतः । यस्मिन्भवादयो देवाः षट्त्रिंशन्मनवः स्मृताः ॥ ४७
ब्रह्मस्थानमिदं वापि यदा प्राप्तं त्वया विभो । तदाप्रभृति कल्पश्च त्रयस्त्रिंशत्तमो ह्ययम् ॥ ४८
शतं शतसहस्राणामतीता ये स्वयंभुवः । पुरस्तात्तव देवेश तान्शृणुष्व महामुने ॥ ४९
आनन्दस्तु स विज्ञेय आनन्दत्वे महातपः । गालव्यगोत्रतपसा मम पुत्रस्त्वमागतः ॥ ५०
त्वयि योगश्च सांख्यं च तपो विद्याविधिः क्रिया । ऋतं सत्यं च यद्ब्रह्म अहिंसा संततिक्रमाः ॥ ५१
ध्यानं ध्यानवपुः शान्तिर्विद्याऽविद्या मतिर्धृतिः । कान्तिः शान्तिः स्मृतिर्मेधा लज्जा शुद्धिः सरस्वती । वृष्टिः तुष्टिः क्रिया चैव लज्जा शान्तिः प्रतिष्ठिता ॥ ५३
षड्विंशत्तद्गुणा ह्येषा द्वात्रिंशाक्षरसंज्ञिता । प्रकृतिं विद्धि तां ब्रह्मंस्त्वत्प्रसूतिं महेश्वरीम् ॥ ५४
सैषा भगवती देवी तत्प्रसूतिः स्वयंभुवः । चतुर्मुखी जगद्योनिः प्रकृतिर्गौः प्रकीर्तिता ॥ ५५
प्रधानं प्रकृतिं चैव यदाहुस्तत्त्वचिन्तकाः ॥ ५६
अजामेतां लोहितां शुक्लकृष्णां विश्वं संप्रसृजमानां सुरूपाम्
अजोऽहं वै बुद्धिमान्विश्वरूपां गायत्रीं गां विश्वरूपां हि बुद्ध्वा ॥ ५७
एवमुक्त्वा महादेवः अ(वस्तव)ट्टहासमथाकरोत् । वलितास्फोटितरवं कहाकहिनदं तथा ॥ ५८
ततोऽस्य पार्श्वतो दिव्याः सर्वरूपाः कुमारकाः । जटी मुण्डी शिखण्डी च अर्धमुण्डश्च जज्ञिरे
ततस्ते तु यथोक्तेन योगेन सुमहौजसः । दिव्यं वर्षसहस्रं तु उपासित्वा महेश्वरम् ॥ ६०
धर्मोपदेशं नियतं कृत्वा योगमयं दृढम् । शिष्टानां नियतात्मानः प्रविष्टा रुद्रमीश्वरम् ॥ ६१
वायुरुवाच—
ततो विस्मयमापन्नो ब्रह्मा लोकपितामहः । पप्रच्छस्तु महादेवं भक्तियुक्तेन चेतसा ॥
उवाच वचनं सर्वैः श्वेतत्वं ते कथं विभो ॥ ६२
भगवानुवाच—
श्वेतः कल्पो यदा ह्यासीदहं श्वेतस्ततोऽभवम् । श्वेतोष्णीषः श्वेतमाल्यः श्वेताम्बरधरः शिवः ॥ ६३
श्वेतास्थिमांसरोमा च श्वेतत्वक्श्वेतलोहितः । तेन नाम्ना च विख्यातः श्वेतकल्पस्तदा ह्यसौ
मत्प्रसादाच्च देवेशः श्वेताङ्गः श्वेतलोहितः । श्वेतवर्णा तदा ह्यासीद्गायत्री ब्रह्मसंज्ञिता ॥ ६५
यस्मादहं च देवेश त्वया गुह्ये पदे स्थितः । विज्ञातः स्वेन तपसा सद्योजातः सनातनः ॥
सद्योजातेति ब्रह्मैतद्गुह्यं चैव प्रकीर्तितम् ॥ ६६
तस्माद्गुह्यत्वमापन्नं ये वेत्स्यन्ति द्विजातयः । तत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ ६७