वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 67, कुल 465 में से
संदर्भ में पढ़ें५८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०२२-२३श्लो०३१-३५।१८]
( माहेश्वरावतारयोगः )
रक्ताम्बराधराः सर्वे रक्तमाल्यानुलेपनाः । रक्तभस्मानुलिप्ताङ्गा रक्तास्या रक्तलोचनाः ॥ ३१
ततो वर्षसहस्रान्ते ब्रह्मण्य व्यवसायिनः । मृणन्तश्च महात्मानो ब्रह्म तद्धामदैविकम् ॥ ३२
अनुग्रहार्थं लोकानां शिष्याणां हितकाम्यया । धर्मोपदेशमखिलं कृत्वा ते ब्राह्मणाः स्वयम् ॥ ३३
पुनरेव महादेवं प्रविष्टा रुद्रमव्ययम् । येऽपि चान्ये द्विजश्रेष्ठा युञ्जाना वाममीश्वरम् ॥ ३४
प्रपद्यन्ति महादेवं तद्भक्तास्तत्परायणाः । ते सर्वे पापनिर्मुक्ता विमला ब्रह्मवर्चसः ॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ ३५
इति श्रीमहापुराणे वायुप्रोक्ते कल्पसंख्यानिरूपणं नाम द्वाविंशोऽध्यायः ॥ २३ ॥
आदितः श्लोकानां समष्ट्यङ्काः--१४४५
अथ त्रयोविंशोऽध्यायः ।
माहेश्वरावतारयोगः ।
वायुरुवाच--
एकविंशत्तमः कल्पः पीतवासा इति स्मृतः । ब्रह्मा यत्र महातेजाः पीतवर्णत्वमागतः ॥ १
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः । प्रादुर्भूतो महातेजाः कुमारः पीतवस्त्रवान् ॥ २
पीतगन्धानुलिप्ताङ्गः पीतमाल्यधरो युवा । पीतयज्ञोपवीतश्च पीतोष्णीषो महाभुजः ॥ ३
तं दृष्ट्वा ध्यानसंयुक्तं ब्रह्मा लोकेश्वरं प्रभुम् । मनसा लोकधातारं ववन्दे परमेश्वरम् ॥ ४
ततो ध्यानगतस्तत्र ब्रह्मा माहेश्वरीं पराम् । अपश्यद्वां विरूपां च महेश्वरमुखच्युताम् ॥ ५
चतुष्पदां चतुर्वक्त्रां चतुर्हस्तां चतुस्तनीम् । चतुर्नेत्रां चतुःशृङ्गीं चतुर्दंष्ट्रां चतुर्मुखीम् ॥ ६
द्वात्रिंशल्लोकसंयुक्तामीश्वरीं सर्वतोमुखीम् । स तां दृष्ट्वा महातेजा महादेवीं महेश्वरीम् ॥ ७
पुनराह महादेवः सर्वदेवनमस्कृतः । मतिः स्मृतिर्बुद्धिरिति गायमानः पुनः पुनः ॥ ८
एह्येहीति महादेवीं सोऽतिष्ठत्प्राञ्जलिर्भृशम् । विश्वमावृत्य योगेन जगत्सर्वं वशी कुरु ॥ ९
अथोवाच महादेवो रुद्राणी त्वं भविष्यसि । ब्राह्मणानां हितार्थाय परमार्थे भविष्यसि ॥ १०
अथैनां पुत्रकामस्य ध्यायतः परमेष्ठिनः । प्रददौ देवदेवेशश्चतुष्पदां महेश्वरीम् ॥ ११
ततस्तां ध्यानयोगेन विदित्वा परमेश्वरीम् । ब्रह्मा लोकनमस्कार्यः पपद्ये तां महेश्वरीम् ॥ १२
गायत्री तु ततो रौद्रीं ध्यात्वा ब्रह्मा सुयन्त्रितः । इत्येतां वैदिकीं विद्यां रौद्रीं गायत्रीमर्पिताम् ॥ १३
जपित्वा तु महादेवीं रुद्रलोकनमस्कृताम् । प्रपन्नस्तु महादेवं ध्यानयुक्तेन चेतसा ॥ १४
ततस्तस्य महादेवो दिव्यं योगं पुनः स्मृतम् । ऐश्वर्यं ज्ञानसंपत्तिं वैराग्यं च ददौ पुनः १५
अथाट्टहासं मुमुचे भीषणं दीप्तमीश्वरः । ततोऽस्य सर्वतो दीप्ताः प्रादुर्भूताः कुमारकाः ॥ १६
पीतमाल्याम्बरधराः पीतगन्धविलेपनाः । पीतोष्णीषशिरसश्चैव पीतास्याः पीतमूर्धजाः ॥ १७
ततो वर्षसहस्रान्त उषित्वा विमलौजसः । योगात्मानस्ततः स्नाता ब्राह्मणानां हितैषिणः ॥ १८