सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 64, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 64

५५

[अ० २१ श्लो ३३-६०] वायुपुराणम् ।
( कल्पनिरूपणम् )

उत्पन्नस्तु यथा नादो गन्धर्वा यत्र चोत्थिताः । ऋषभस्तु ततः कल्पो ज्ञेयः पञ्चदशो द्विजाः ॥ ३३
ऋषभो यत्र संभूतः स्वरो लोकमनोहरः । षड्जस्तु षोडशः कल्पः षड्जना यत्र चर्षयः ॥ ३४
शिशिरश्च वसन्तश्च निदाघो वर्ष एव च । शरद्धेमन्त इत्येते मानसा ब्रह्मणः सुताः ॥ ३५
उत्पन्नाः षड्जसंसिद्धाः पुत्राः कल्पे तु षोडशे । यस्माज्जतैश्च तैः षड्भिः सद्योजातो महेश्वरः
तस्मात्समुत्थितः षड्जः स्वरस्तूदधिसंनिभः । ततः सप्तदशः कल्पो मार्जालीय इति स्मृतः ॥ ३७
मार्जालीयं तु तत्कर्म यस्माद्ब्रह्मामकल्पयत् । ततस्तु मध्यमो नाम कल्पोऽष्टादश उच्यते ॥ ३८
यस्मिंस्तु मध्यमो नाम स्वरो वैवतपूजितः । उत्पन्नः सर्वभूतेषु मध्यमो वै स्वयंभुवः ॥ ३९
ततस्त्वेकोनविंशस्तु कल्पो वैराजकः स्मृतः । वैराजो यत्र भगवान्मनुर्वै ब्रह्मणः सुतः ॥ ४०
तस्य पुत्रस्तु धर्मात्मा दधीचिर्नाम धार्मिकः । प्रजापतिर्महातेजा बभूव त्रिदशेश्वरः ॥ ४१
अकामयत गायत्री यजमानं प्रजापतिम् । तस्माज्जज्ञे स्वरः स्निग्धः पुत्रस्तस्य दधीचिनः ॥ ४२
ततो विंशतिमः कल्पो निषादः परिकीर्तितः । प्रजापतिस्तु तं दृष्ट्वा स्वयंभूप्रभवं तदा ॥ ४३
विरराम प्रजाः स्रष्टुं निषादस्तु तपोऽतपत् । दिव्यं वर्षसहस्रं तु निराहारो जितेन्द्रियः ॥ ४४
तमुवाच महातेजा ब्रह्मा लोकपितामहः । ऊर्ध्वबाहुं तपोग्लानं दुःखितं क्षुत्पिपासितम् ॥ ४५
निषीदेत्यब्रवीदेनं पुत्रं शान्तं पितामहः । तस्मान्निषादः संभूतः स्वरस्तु स निषादवान् ॥ ४६
एकविंशतिमः कल्पो विज्ञेयः पञ्चमो द्विजाः । प्राणोऽपानः समानश्च उदानो व्यान एव च ॥ ४७
ब्रह्मणो मानसाः पुत्राः पञ्चैते ब्रह्मणः समाः । तैस्त्वर्थवादिभिर्युक्तैर्वाग्भिरिष्टो महेश्वरः ॥ ४८
यस्मात्पारिगतैर्गतिः पञ्चभिस्तैर्महात्मभिः । स्वरस्तु पञ्चमः स्निग्धस्तस्मात्कल्पस्तु पञ्चमः ॥ ४९
द्वाविंशस्तु तथा कल्पो विज्ञेयो मेघवाहनः यत्र विष्णुर्महाबाहुर्मेघो भूत्वा महेश्वरम् ॥ ५०
दिव्यं वर्षसहस्रं तु अवहत्कृत्तिवाससम् । तस्य विध्वसमानस्य भाराक्रान्तस्य वै मुखात् ॥ ५१
निर्जगाम महाकायः कालो लोकप्रकालनः । यस्त्वयं पठ्यते विप्रैर्विष्णुर्वै कश्यपात्मजः ॥ ५२
त्रयोविंशतिमः कल्पो विज्ञेयश्चिन्तकतस्तथा । प्रजापतिसुतः श्रीमांस्थितिंश्च मिथुनं च तौ ॥ ५३
ध्यायतो ब्रह्मणश्चैव यस्माच्चिन्ता समुत्थिता । तस्मात्तु चिन्तकः सोवै (कोऽसौ) कल्पः प्रोक्तः स्वयंभुवा ॥ ५४
चतुर्विंशतिमश्चापि ह्याकृतिः कल्प उच्यते । आकृतिश्च तथा देवी मिथुनं संबभूव ह ॥ ५५
प्रजाः स्रष्टुं तथाऽऽकृतिं यस्मादाह प्रजापतिंः । तस्मात्स पुरुषो ज्ञेय आकृतिः कल्पसंज्ञितः ॥ ५६
पञ्चविंशतिमः कल्पो विज्ञातिः परिकीर्तितः । विज्ञातिश्च तथा देवी मिथुनं संप(सम)सूयत ॥ ५७
ध्यायततः पुत्रकामस्य मनस्यध्यात्मसंज्ञितम् । विज्ञातं वै समासेन विज्ञातिस्तु ततः स्मृतः ॥ ५८
षड्विंशस्तु ततः कल्पो मन इत्यभिधीयते । देवी च शंकरी नाम मिथुनं संप्रसूयते ॥ ५९
प्रजा वै चिन्तमानस्य स्रष्टुकामस्य वै तदा । यस्मात्प्रजासंभवनादुत्पन्नस्तु स्वयंभुवा ॥ ६०