वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 59, कुल 465 में से
संदर्भ में पढ़ें५०. श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०४-३३]
( अरिष्टनिरूपणम् )
वमेन्मूत्रं करीषं वा सुवर्णं रजतं तथा । प्रत्यक्षम्थ वा स्वप्ने दश मासान्स जीवति ॥ ४
अग्रतः पृष्ठतो वाऽपि खण्डं यस्य पदं भवेत् । पांशुले कईमे वाऽपि सप्त मासान्स जीवति ॥ ५
काकः कपोतो गृध्रो वा निलियेद्यस्य मूर्धनि । क्रव्यादो वा खगः कश्चित्षण्मासान्नातिवर्तते ॥ ६
बध्येद्यायसपङ्कीभिः पांशुवर्षेण वा पुनः । छायां वा विकृतां पश्येच्चतुः पञ्च स जीवति ॥ ७
अनभ्रे विद्युतं पश्येद्दक्षिणां दिशमाश्रिताम् । उदकेन्द्रधनुर्वाऽपि त्रयो द्वौ वा स जीवति ॥ ८
अप्सु वा यदि वाऽऽदर्श आत्मानं यो न पश्यति । आशिरस्कं तथाऽऽत्मानं मासादूर्ध्वं न जीवति ॥ ९
शवगन्धि भवेद्गात्रं वशा(सा)गन्धि व्यथापि वा । मृत्युह्युपस्थितस्तस्य अर्धमासं स जीवति ॥ १०
(*यस्य वै स्नातमात्रस्य हृत्पादं वाऽवशुष्यति। धूमो(मं)वा मस्तकान्पश्ये(त्पश्ये)द्दशाहं न स जीवति) ॥
संभिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति । अद्भिः स्पृष्टो न हृष्येच्च तस्य मृत्युरुपस्थितः॥१२ -
ऋक्षवानरयुक्तेन रथेनाऽऽशां तु दक्षिणाम् । गायन्नथ व्रजेत्स्वप्ने विद्यान्मृत्युरुपस्थितः ॥ १३
कृष्णाम्बरधरा श्यामा गायन्ती वाऽथ चाङ्गना । यन्नयेद्दक्षिणामाशां स्वप्ने सोऽपि न जीवति ॥ १४
छिद्रं वासश्च कृष्णं च स्वप्ने यो बिभृयान्नरः । भग्नं वा श्रवणं दृष्ट्वा विद्यान्मृत्युरुपस्थितः ॥ १५
आ मस्तकतलाद्यस्तु निमज्जेत्पङ्कसागरे । दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति ॥ १६
भस्माङ्गारांश्च केशांश्च नदीं शुष्कां भुजंगमान् । पश्येद्यो दशरात्रं तु न स जीवेत तादृशः ॥ १७
कृष्णैश्च विकटैश्चैव पुरुषैरुद्यतायुधैः । पाषाणैस्ताडयते स्वप्ने सद्य एव न जीवति ॥ १८
सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवा । क्रोशन्ती संमुखाऽभ्येति स गतायुर्भवेन्नरः ॥ १९
यस्य वै स्नातमात्रस्य हृदयं पीड्यते भृशम् । जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥ २०
भूयो भूयः श्वसेद्यस्तु रात्रौ वा यदि वा दिवा । दीपगन्धं च नो वेत्ति विद्यान्मृत्युमुपस्थितम् ॥ २१
रात्रौ चेन्द्रायुधं पश्येद्दिवा नक्षत्रमण्डलम् । परनेत्रेषु चाऽऽत्मानं न पश्येन्न स जीवति ॥ २२
नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः । नासा च वक्रा भवति स ज्ञेयो गतजीवितः ॥ २३
यस्य कृष्णा खरा जिह्वा पङ्कभासं च वै मुखम् । गण्डे चिपिटके रक्ते तस्य मृत्युरुपस्थितः॥ २४
मुक्तकेशो हसंश्चैव गायन्नृत्यंश्च यो नरः । याम्याशाभिमुखो गच्छेत्तदन्तं तस्य जीवितम् ॥ २५
यस्य स्वेदसमुद्भूताः श्वेतसर्षपसंनिभाः । स्वेदा भवन्ति ह्यसकृत्तस्य मृत्युरुपस्थितः ॥ २६
उष्ट्रा वा रासभा वाऽपि युक्ताः स्वप्ने रथेऽशुभाः । यस्य सोऽपि न जीवेत दक्षिणाभिमुखो गतः२७
द्वे चात्र परमे रिष्टे एतद्रूपं परं भवेत् । घोषं न शृणुयात्कर्णे ज्योतिर्नेत्रे न पश्यति ॥ २८
श्वभ्रे यो निपतेत्स्वप्ने द्वारं चास्य न विद्यते । न चोत्तिष्ठति यः श्वभ्रात्तदन्तं तस्य जीवितम् ॥ २९
ऊर्ध्वां च दृष्टिं च संप्रतिष्ठा रक्ता पुनः संपरिवर्तमाना ।
मुखस्य चोष्मा शुषिरा च नाभिरत्युष्णमूत्रो विषमस्थ एव ॥ ३०
दिवा वा यदि वा रात्रौ प्रत्यक्षं योऽभिहन्यते । तं पश्येदथ हन्तारं स हतस्तु न जीवति ॥ ३१
अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः । स्मृतिं नोपलभेच्चापि तदन्तं तस्य जीवितम् ॥ ३२
यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः । रक्तं कृष्णमपि स्वप्ने तस्य मृत्युरुपस्थितः ॥ ३३
* धनुश्चिह्नान्तर्गतग्रन्थः क. घ. पुस्तकयोर्नास्ति ।