सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 444, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 444

[अ० १०८-श्लो० १-२६] वायुपुराणम् । ४३५
( गयामाहात्म्यम )

अष्टमोत्तरशततमोऽध्यायः ।
गयामाहात्म्यम् ।

सनत्कुमार उवाच—
वक्ष्ये शिलाया माहात्म्यं शृणु नारद मुक्तिदम् । यस्या गायन्ति देवाश्च माहात्म्यं मुनिपुंगवाः ॥ १
शिला स्थिता पृथिव्यां सा देवरूपाऽतिपावनी । विचित्राख्यं शिलातीर्थं त्रिषु लोकेषु विश्रुतम् ॥ २
तस्याः संस्पर्शनाल्लोकाः सर्वे हरिपुरं ययुः । शून्ये लोकत्रये जाते शून्या यमपुरी बभूव ॥ ३
यम इन्द्रादिभिर्गत्वा ऊचे ब्रह्माणमद्भुतम् । अधिकारं गृहाणाथ यमदण्डं पितामह ॥ ४
यममूचे ततो ब्रह्मा स्वगृहे धारयस्व ताम् । ब्रह्मलोको धर्मराजस्तु गृहे तां समधारयत् ॥ ५
यमोऽधिकारं स्वं चक्रे पापिनां शासनादिकम् । एवंविधा गुरुतरा शिला जगति विश्रुता ॥ ६
यथा ब्रह्मा यथा विष्णुर्यथा देवो महेश्वरः । ब्रह्माण्डे च यथा मेरुस्तथेयं देवरूपिणी ॥ ७
गयासुरस्य शिरसि गुरुत्वाद्धारिता यतः । अतः पवित्रयोर्योगः पितॄणां मोक्षदायकः ॥ ८
पवित्रयोर्द्वयोर्योगे हयमेधमजोऽकरोत् । भागार्थमागतन्दृष्ट्वा विष्ण्वादीनब्रवीच्छिला ॥ ९
शिलास्थितिप्रतिज्ञां तु कुर्वन्तु पितृमुक्तये । तथेत्युक्त्वा शिलायां ते देवा विष्ण्वादयः स्थिताः ॥ १०
शिलारूपेण मूर्त्या च पद्रूपेण देवताः । मूर्तामूर्तस्वरूपेण स्थिताः पूर्वप्रतिज्ञया ॥ ११
दैत्यस्य मुण्डपृष्ठे तु यस्मात्सा संस्थिता शिला । तस्मात्स मुण्डपृष्ठाद्रिः पितॄणां ब्रह्मलोकदः ॥ १२
आच्छादितः शिलापादः प्रभासेनाद्रिणा यतः । भासितो भास्करेणेति प्रभासः परिकीर्तितः ॥ १३
प्रभासं हि विनिर्भिद्य शिलाङ्गुष्ठो विनिर्गतः । (*अङ्गुष्ठोत्थित ईशोऽपि प्रभासेशः प्रकीर्तितः ॥
शिलाङ्गुष्ठैकदेशो यः सा च प्रेतशिला स्मृता ।) पिण्डदानाद्यतस्तस्यां प्रेतत्वान्मुच्यते नरः ॥ १५
महानदीपभासाद्र्योः संगमे स्नानकृन्नरः । रामो देव्या सह स्नातो रामतीर्थं ततः स्मृतम् ॥ १६
प्रार्थितोऽत्र महानद्या राम स्नातो भवेति च । रामतीर्थं ततो भूत्वा त्रिषु लोकेषु विश्रुतम् ॥ १७
जन्मान्तरशतं साग्रं यत्कृतं दुष्कृतं मया । तत्सर्वं विलयं यातु रामतीर्थाभिषेचनात् ॥ १८
मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्वीत मानवः । रामतीर्थे पिण्डदस्तु विष्णुलोकं प्रयात्यसौ ॥ १९
तथेत्युक्त्वा स्थितो रामः सीतया भरताग्रजः ॥ २०
राम राम महाबाहो देवानांमभयंकर । त्वां नमस्येऽत्र देवेशं मम नश्यतु पातकम् ॥
मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्यात्सापिण्डकम् । प्रेतत्वान्तस्य पितरो विमुक्ताः पितृतां ययुः ॥ २१
आपस्त्वमसि देवेश ज्योतिषां पतिरेव च । पापं नाशय मे देवो मनोवाक्कायकर्मजम् ॥ २२
नमस्कृत्य प्रभासेशं भासमानं शिवं व्रजेत् । तं च शंभुं नमस्कृत्य कुर्याद्यमबलिं ततः ॥ २३
रामे वनं गते शैलमागत्य भरतः स्थितः । पितृपिण्डादिकं कृत्वा रामं संस्थाप्य तत्र च ॥ २४
रामं सीतां लक्ष्मणं च मुनीन्स्थापितान्वभुः । भारतस्याऽऽश्रमे पुण्ये नित्यं पुण्यतमैर्वृतम् ॥ २५
[ + मातङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ॥
स्थापितं धर्मसंघस्व लोकस्यास्य निदर्शनात् । ] मातङ्गस्य पदे श्राद्धी सर्वांस्तारयेत् पितॄन् ॥ २६


* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके न विद्यते ।