सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 440, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 440

[अ०१०६श्लो०५१-७४] वायुपुराणम् । ४३१
( गयामाहात्म्यम् )
ब्रह्मोवाच-
देवदेव कृते यागे प्रचचाल गयासुरः । शिलायां देवरूपिण्यां न्यस्तायां तस्य मस्तके ॥ ५१
रुद्रादिषु च देवेषु संस्थितेष्वसुरोऽचलत् । इदानीं निश्चलार्थं हि प्रसादं कुरु माधव ॥ ५२
ब्रह्मणो वचनं श्रुत्वा ह्याकृष्य स्वशरीरतः । मूर्तिं ददौ निश्चलार्थं ब्रह्मणे भगवान्हरिः ॥ ५३
आनीय मूर्तिं ब्रह्माऽपि शिलायां समधारयत् । तथाऽपि चालितं वीक्ष्य पुनर्देवमथाऽऽह्वयत् ॥ ५४
आगत्य विष्णुः क्षीराब्धेः शिलायां संस्थितोऽभवत् । जनार्दनाभिधानेन पुण्डरीकेतिनामतः ॥
शिलायां निश्चलार्थं हि स्वयमादिगदाधरः ॥ ५५
निश्चयार्थं पञ्चधाऽऽसीच्छिलायां प्रपितामहः । पितामहोऽथ फल्ग्वीशः केदारः कनकेश्वरः ॥ ५६
ब्रह्मा स्थितः स्वयं तत्र गजरूपी विनायकः । गयादित्यश्चोत्तरार्को दक्षिणार्कस्त्रिधा रविः ॥ ५७
लक्ष्मीः सीताभिधानेन गौरी च मङ्गलाह्वया । गायत्री चैव सावित्री त्रिसंध्या च सरस्वती ॥ ५८
इन्द्रो बृहस्पतिः पूषा वसवोऽष्टौ महाबलाः । विश्वे देवाश्चाऽश्विनेयौ [ * मारुतो विघ्ननायकः ॥ ५९
सयक्षोरगगन्धर्वास्तस्थुर्देवाः स्वशक्तिभिः ॥
आद्यया गदया चासौ ] यस्माद्दैत्यः स्थिरीकृतः । स्थित इत्येव हरिणा तस्मादादिगदाधरः ॥ ६०
ऊचे गयासुरो देवान्किमर्थं वञ्चितो ह्यहम् । यज्ञार्थं ब्रह्मणे दत्तं शरीरमलयं मया ॥ ६१
विष्णोर्वचनमात्रेण किं न स्यां निश्चलो ह्यहम् ॥ ६२
यत्सुरैः पीडितोऽत्यर्थं गदया हरिणा तथा । पीडितो यद्यहं देवाः प्रसन्नाः सन्तु सर्वदा ॥ ६३
गदादरादयस्तुष्टाः प्रोचुः सार्धं गयासुरम् । वरं ब्रूहि प्रसन्ना स्मो देवानूचे गयासुरः ॥
यावत्पृथिवी पर्वताश्च यावच्चन्द्रार्कतारकाः । तावच्छिलायां तिष्ठन्तु ब्रह्मविष्णुमहेश्वराः ॥ ६४
अन्ये च सकला देवा मन्नाम्ना क्षेत्रमस्तु वै ॥ ६५
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः । तन्मध्ये सर्वतीर्थानि प्रयच्छन्तु हितं नृणाम् ॥ ६६
स्नानादितर्पणं कृत्वा पिण्डदानात्फलाधिकम् । महात्मानि सहस्रं च कुलानां चोद्धरेन्नरः ॥ ६७
व्यक्ताव्यक्तस्वरूपेण येयं तिष्ठत सर्वदा । गदाधरः स्वयं लोकाद्ध्यात्वात्सर्वार्घनाशनात् ॥ ६८
श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते । ब्रह्महत्यादिकं पापं विनश्यतु च सेविनाम् ॥
नैमिषं पुष्करं गङ्गा प्रयागश्चाविमुक्तिकम् । एतान्यन्यानि तीर्थानि दिवि भुव्यन्तरिक्षतः ॥ ६९
समायान्तु सदा नृणां प्रयच्छन्तु हितं सुराः ॥

  • किं बहुक्त्या सुरमणा युष्मास्वेकाऽपि देवता । चेन्न तिष्ठेदहं चापि सभयः प्रतिपाल्यताम् ॥
    गयासुरवचः श्रुत्वा प्रोचुर्विष्ण्वादयः सुराः । त्वया यत्प्रार्थितं सर्वं तद्भविष्यत्यसंशयम् ॥ ७१
    अस्मत्पादानर्चयित्वा यास्यन्ति परमां गतिम् । देवैर्दत्तवरो दैत्यो हर्षितो निश्चलोऽभवत् ॥ ७२
    स्थितेषु चैव देवेषु ब्राह्मणेभ्यो ददावजः । ग्रामांश्च पञ्चपञ्चाशतपञ्चक्रोशीं गयां तथा ॥ ७३
    गृहान्कृत्वा ददौ दिव्यान्सर्वोपस्करसंयुतान् ॥ ७४
    कामधेनुं कल्पवृक्षं पारिजातादिकांस्तरून । महानदीं क्षीरवहां घृतकुल्यास्तथैव च ॥

* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + अयं श्लोकः ख पुस्तके न ॥