वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 433, कुल 465 में से
संदर्भ में पढ़ें४२४ श्रीमहैपायनमुनिप्रणीतम्- [अ० १०४ श्लो० ४८-७५]
(व्याससंशयापनोदनम)
अधरामृतसंसिक्तवेणुनादेन बल्लवीः । मोहयन्तं चिदानन्दमनङ्गमदभञ्जनम् ॥ ४८
कोटिकामकलापूर्णं कोटिचन्द्रांशुनिर्मलम् । विरेकण्ठविलसद्रत्नगुञ्जामृगाकुलम् ॥ ४९
यमुनापुलिने तुङ्गे तमालवनकानने । कदम्बचम्पकाशोकपारिजातमनोहरे ॥ ५०
शिखिपारावतशुकपिककोलाहलाकुले । निरोधार्थं गवामेव धावमानमितस्ततः ॥ ५१
राधामिलासरसिकं कृष्णाख्यं पुरुषं परम् । श्रुतवानस्मि वेदेभ्यो यतस्तद्गोचरोऽभवत् ॥ ५२
एवं ब्रह्मणि चिन्मात्रे निर्गुणे भेदवर्जिते । गोलोकसंज्ञके कृष्णो दीव्यतीति श्रुतं मया ॥ ५३
नातः परतरं किंचिन्निगमागमयोरपि । तथाऽपि निगमो वक्ति सक्षरात्परतः परः ॥ ५४
गोलोकवासी भगवानक्षरात्पर उच्यते । तस्मादपि परः कोऽसौ गीयते श्रुतिभिः सदा ॥ ५५
उद्दिष्टो वेदवचनैर्विशेषो ज्ञायते कथम् । श्रुतेर्वाऽर्थोऽन्यथा बोध्यः परतस्त्वक्षरादिति ॥ ५६
श्रुत्यर्थे संशयापन्नो व्यासः सत्यवतीसुतः । विचारयामास चिरं न पपेदे यथातथम् ॥ ५७
सूत उवाच--
विचारयन्नपि मुनिनींऽऽप वेदार्थनिश्चयम् । वेदो नारायणः साक्षाद्यत्र मुह्यन्ति सूरयः ॥ ५८
तदाऽपि महतार्तिं सतां हृदयतापिनीम् । पुनर्विचारयामास कं व्रजामि करोमि किम् ॥ ५९
पृच्छामि न जगत्त्यस्मिन्सर्वज्ञं सर्वदर्शनम् । अज्ञात्वाऽन्यतमं लोके संदेहाविनिवर्तकम् ॥ ६०
मेरोः कुहरिणीं गत्वा चचार परमं तपः । यत्र कार्तस्वरस्फूर्जज्ज्योत्स्नाजालैर्निरन्तरम् ॥ ६१
सदा प्रबाधते विश्वक्तमःस्तोमं दृशंतुदम् । चकास्ते यत्र परमं कान्तारमतिसुन्दरम् ॥ ६२
नानाद्रुमलताकुञ्जकूजत्पक्षिनिनादितम् । क्षुत्पिपासाभयक्रोधतापग्लानिविवर्जितम् ॥ ६३
जलाशयैर्बहुविधैः पद्मिनीखण्डमण्डितैः । जातरूपशिलानद्धतटसंचारपक्षिभिः ॥ ६४
युक्तमम्भोजपवनैः सेव्यमानं समन्ततः । शिवैरध्यासितं भावैर्हिंस्रैः सत्त्वैः समुज्झितम् ॥ ६५
निर्जनं दिव्यलतिकाप्रियखण्डविराजितम् । शुकैः पारावतैर्हंसैरून्मदन्मत्तकोकिलम् ॥ ६६
उत्पतत्पद्मरजसां पटलामोददिङ्मुखम् । तत्रापि काञ्चनी दिव्या गुहा परमशोभना ॥ ६७
तां प्रविश्य जिताहारो जितचित्तो जितासनः । सस्मार वेदांश्चतुरस्तदेकाग्रमना मुनिः ॥ ६८
त्रयी जगाम शरदां शतस्य स्मरतोऽस्य हि । प्रादुरासंस्ततो वेदाश्चत्वारश्चारुदर्शनाः ॥ ६९
स्फुरत्पद्मपलाशाक्षा जटामुकुटधारिणः । कुशमुष्टिकराम्भोजा मृगत्वङ्मण्डितांसकाः ॥ ७०
स्वरैः षोडशभिः क्लृप्तवदनाः प्रणवान्तराः । कचवर्गाोद्भवैर्वर्णैः पञ्चावयवपाणयः ॥ ७१
पवर्गदक्षचरणा वामपादस्तवर्गंतः । आच(त)रन्त्यन्तवर्णांश्च येषां कुक्षिद्वयात्मकौ ॥ ७२
नाभिनिद्राः कान्तपृष्ठा मोदरा यरलवोत्कचाः । अभिदक्षांशरुचिरा धराग्रीवा भृतांसकाः ॥ ७३
अन्तस्थसंस्थाना वैखरीवाग्विजूम्भिताः । अपश्यन्मधुरामोषां हृदयाम्भोजकल्पिताम् ॥ ७४
हरेर्भगवतः साक्षादाविर्भावस्थली हि सा । कारीमपश्यद्भ्रूमध्ये मायामाधारसंस्थिताम् ॥ ७५