वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 429, कुल 465 में से
संदर्भ में पढ़ें४२० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १० ३ श्लो० ३०-५०]
(सृष्टिवर्णनम)
गुणमात्रामकाश्चैव धर्माधर्मौ परस्परम् । आरप्सन्ती(भन्ते)ह चान्योन्यं वरेणानुग्रहेण च ॥ ३०
सर्वे तुल्याः प्रवृत्त्यर्थं सर्गादौ यान्ति विक्रियाम् । गुणास्तत्प्रतिधावन्ते तस्मात्तत्तस्य रोचते ॥ ३१
गुणास्ते यानि सर्वाणि यादृष्टेः प्रतिपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ३२
हिंस्राहिंस्रे मृदुकूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ३३
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु । विप्रयोगाश्च भूतानां गुणेभ्यः संप्रवर्तते ॥ ३४
इत्येष वो मया ख्यातः पुनः सर्गः समासतः *। समासादेव वक्ष्यामि ब्रह्मणोऽथ समुद्भवम् ॥ ३५
अव्यक्तात्कारणात्तस्मान्नित्यसत्सदसदात्मकात् । प्रधानपुरुषाभ्यां तु जायते च महेश्वरः ॥ ३६
स पुत्रः संभवपिता जायते ब्रह्मसंज्ञितः । सृजते स पुनर्लोकानाभिमानगुणात्मकान् ॥ ३७
अहंकारस्तु महतस्तस्माद्भूतानि चाऽऽत्मनः । युगपत्संप्रवर्तन्ते भूतान्येवेन्द्रियाणि च ॥
भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्तते ॥ ३८
विस्तरावयवस्तेषां यथाप्रज्ञं यथाश्रुतम् । कीर्तितं वो यथा पूर्वं तथैवाभ्युपधार्यताम् ॥ ३९
एतच्छ्रुत्वा नैमिषेयास्तदानीं लोकोत्पत्तिं संस्थितिं च व्ययं च ॥
तस्मिन्सत्रेऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति ॥ ४०
यथा यूयं विधिवद्देवतादीनिष्ट्वा चैवावभृथं प्राप्य शुद्धाः ॥
त्यक्त्वा देहानायुषोऽन्ते कृतार्थान्पुण्याल्लोकान्प्राप्य यथेष्टं चारिष्यथ ॥ ४१
एते ते नैमिषेया वै इष्ट्वा सृष्ट्वा च वै तदा । जगमुश्चावभृतस्नाताः स्वर्गं सर्वे तु सत्रिरणः ॥ ४२
विपास्तथा यूयमापे दृष्ट्वा बहुविधैर्यखैः । आयुषोन्ते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः ॥ ४३
प्रक्रिया प्रथमः पादः कथावस्तुपरिग्रहः । अनुषङ्ग उपोद्घात उपसंहार एव च ॥ ४४
एवमेतच्चतुष्पादं पुराणं लोकसंमतम् । उवाच भगवान्साक्षाद्वायुलौकहिते रतः ॥ ४५
नैमिषे सत्रमासाद्य मुनिमध्ये मुनिसत्तमाः । तत्प्रसादादसंदिग्धं भूतोत्पत्तिलयान्वितम् ॥ ४६
प्राधानिकामियां सृष्टिं तथैवेश्वरकारिताम् । सम्यग्विादित्वा मेधावी न मोहमधिगच्छति ॥ ४७
इमं यो ब्राह्मणो विद्वानितिहासं पुरातनम् । शृणुयाच्छ्रावयेद्वाऽपि तथाऽऽध्यापपयेतऽपि च ॥ ४८
स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः । ब्रह्मसायो(यु)ज्यगो भूत्वा ब्रह्मणा सह मोक्ष्यते ॥
तेषां कीर्तिमंतां कीर्तिं प्रजेशानां महात्मनान्x । प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति ॥ ५० +
* इत उत्तरमयं श्लोकः ख. पुस्तके स यथा-धारणाश्रुतबुद्धीनां योगानां चैव धार्यताम् ।
यतेन्द्रियाः सुसंबन्धाधारणायोगनिश्चयाः । इति ।
x इतं परमेते श्लोका अधिका उपलभ्यन्ते ख पुस्तके ते च यथा--इदं यः श्रावयेद्विद्वांस्तस्य
चैवोत्तमा गतिः । धनधान्यसुखैश्वर्यं प्राप्यते नात्र संशयः । ब्राह्मणो लभते विद्यां ब्रह्मसायोज्य-
मामुयात् । क्षत्रियो जयमामोति सुरलोकोत्तमा गतिम् । वैश्यस्तु धनलाभांव्या धनधान्यलभेत च
शूद्रः सुखमवामोति पुत्रपौत्रादिसंयुतः । श्लोकं श्लोकार्धपादं वा योऽधीते शृणुयाद्यतः । अन्ते
विष्णुपुरं याति यत्र गत्वा न शोचति । इति ।
+ ब्रह्मभूयाय गच्छतीत्युत्तरमेते श्लोका अधिकाः ख पुस्तके उपलभ्यन्ते ते च यथा--
येनेदं भारतं पुण्यं शृणुयाद्वाऽप्यभीक्ष्णशः । स चापि लभते स्वर्गं वायुमोक्ते प्रसादतः ॥