वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 421, कुल 465 में से
संदर्भ में पढ़ें४१२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० १०। श्लो० ३२२-३४५]
( शिवपुरवर्णनम् )
नाहं तेषां रुद्राणां भवस्य च महात्मनः । नानात्वमनुपश्यामि सत्यमेतद्ब्रवीमि वः ॥ ३२२
मातरिश्वाऽब्रवीत्पुण्यमित्येतामीश्वराच्छ्रुताम् । अथ ते ऋषयः सर्वे दिवाकरसमप्रभाः ॥
श्रुत्वेमां परमां पुण्यां कथां त्रैयम्बकीं ततः ॥ ३२३
भृशं चानुग्रहं प्राप्य हर्षं चैवाप्यनुत्तमम् । संभावयित्वा चाप्येनां वायुमूचुर्महाबलम् ॥ ३२४
ऋषय ऊचुः—
समीरण महाभाग अस्माकं च त्वया विभो । ईश्वरस्योत्तमं पुण्यमष्टमं त्वौपसर्गिकम् ॥ ३२५
तस्य स्थानं प्रमाणं च यथावत्परिकीर्तितम् । यो गन्धेन समृद्धं वै परमं परमात्मनः ॥ ३२६
महादेवस्य माहात्म्यं दुर्विज्ञेयं सुरैरपि । स्वेन माहात्म्ययोगेन सहस्रस्यामितौजसः ॥ ३२७
यस्य भक्तेष्वसंमोहो ह्यनुकम्पार्थमेव च । ब्राह्मी लक्ष्मीः स्वयं जुष्टा या साऽप्रतिमशालिनी ॥ ३२८
व्याप्य ज्योत्स्नेव खं चन्द्रं विन्यस्ता विश्वरूपिणा । विभूतिर्भ्राजतेऽत्यर्थं देवदेवस्य वेश्मनि ॥ ३२९
महादेवस्य तुल्यानां रुद्राणां तु महात्मनाम् । तत्सर्वं निखिलेनेदं वक्त्रादमृतनिस्स्रवम् ॥ ३३०
अपीत्वा (?) खलु सर्वस्य भक्त्याऽस्माभिस्तु सुव्रताः । नास्ति किंचिदविज्ञेयमन्यच्चैवानुगामिनः ॥
प्रश्नं देववर प्राण यथावद्वक्तुमर्हसि ॥ ३३१
सूत उवाच—
स खलूवाच भगवान्किं भूयो वर्तयाम्यहम् । किं मया चैव वक्तव्यं तद्वदिष्यामि सुव्रताः ॥ ३३२
ऋषय ऊचुः—
आदित्याः पारिपार्श्वयाः सिंहा वै क्रोधविक्रमाः । वैश्वानरा भूतगणा व्याघ्राश्चैवानुगामिनः ॥ ३३३
अभूतसंप्लवे घोरे सर्वपाणभृतां क्षये । किमवस्था भवन्त्येते तन्नो ब्रूहि यथार्थवत् ॥ ३३४
* एते ये वै त्वया प्रोक्ताः सिंहव्याघ्रगणैः सह । ये चान्ये सिद्धिसंप्राप्ता मातरिश्वा जगाद ह ॥
इदं च परमं तत्त्वं समाख्यास्यामि शृण्वताम् । विज्ञातेश्वरसद्भावमव्यक्तं प्रभवं तथा ॥ ३३६
तत्र पूर्वगतास्तेषु कुमारा ब्रह्मणः सुताः । सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥ ३३७
वोढुश्च कपिलस्तेषामासुरिश्च महायशाः । मुनिः पञ्चशिखश्चैव ये चान्येऽप्येवमादयः ॥ ३३८
ततः काले व्यतिक्रान्ते कल्पानां पर्यये गते । महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ॥ ३३९
अनेकरुद्रकोट्यस्तु याः प्रसन्ना महेश्वरी । शब्दादीन्विषयान्भोगान्सत्यस्याष्टविधश्रयात् ॥ ३४०
प्रविश्य सर्वभूतानि ज्ञानयुक्तेन तेजसा । वैहायपदमव्ययं भूतानामनुकम्पया ॥ ३४१
तत्र यान्ति महात्मानः परमाणुं महेश्वरम् । तरन्ति सुमहावर्ती जन्ममृत्यूदकां नदीम् ॥ ३४२
ततः पश्यन्ति सर्वाणं (?) परं ब्रह्माणमेव च । देव्या वै सहिताः सप्त या देव्यः परिकीर्तिताः ॥
तत्तत्सहस्रं सिंहानामादित्यानां तथैव च । वैश्वानरभूतभव्यव्याघ्राश्चैवानुगामिनः ॥ ३४४
आवेश्याऽऽत्मनि तान्सर्वान्संख्यायोपद्भवांस्तथा । लोकान्सप्त इमान्सर्वान्महाभूतानि पञ्च च ॥ ३४५
* इत आरभ्य शृण्वतामित्यन्तग्रन्थो ग. पुस्तके न विद्यते ।