सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 408, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 408

[अ० १० । श्लो० २-२५] वायुपुराणम् । ३९९
( भूर्लोकादिव्यवस्थावर्णनम् )
ते देवैः सह तिष्ठन्ति महर्लोकनिवासिनः । चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्धनाः ॥ २
अतीता वर्तमानाश्च तथैवानागताश्च ये । ऋषिभिर्देवैस्तैश्च सह गन्धर्वराक्षसैः ॥ ३
मन्वन्तराधिकारेषु जयन्तीह पुनः पुनः । देवाः सप्तर्षयश्चैव मनवः पितरस्तथा ॥ ४
सर्वे ह्यपि क्रमातीता महर्लोकं समाश्रिताः । ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सुराः ॥ ५
तैस्तथ्यकारिभिर्युक्तैः श्रद्धावद्भिर्दर्दापतः । वर्णाश्रमाणां धर्मेषु श्रौतस्मार्तेषु संस्थितैः ॥
विनिवृत्ताधिकारास्ते यावन्मन्वन्तरक्षयः ॥ ६
ऋषय ऊचुः--
महर्लोकेति यत्प्रोक्तं मातरिश्वंस्त्वथा विभो । प्रतिलोके च कर्तव्यमनेकः समाधिष्ठिताः ॥ ७

  • यावन्तश्चैव ते लोका दह्यन्ते येन ते प्रभो । एतन्नः कथय प्रीत्या त्वं हि वेत्थ यथातथम् ॥ ८
    एवमुक्तस्ततो वायुर्मुनिभिर्विजितात्मभिः । प्रोवाच मधुरं वाक्यं यथातत्वेन तत्त्ववित् ॥ ९
    वायुरुवाच--
    चतुर्दशैव स्थानानि वर्णितानि महर्षिभिः । लोकाख्यानि तु यानि स्युर्येषु तिष्ठन्ति मानवाः ॥ १०
    सप्त तेषु कृतान्याहुरकृतानि तु सप्त वै । भूरादयास्तु संख्याताः सप्त लोकाः कृतास्त्विह ॥ ११
    अकृतानि तु सप्तैव प्राकृतानि तु यानि वै । स्थानानि स्थानिभिः सार्धं कृतानि तु निबन्धनम् ॥
    पृथिवी चान्तरिक्षं च दिव्यं यच्च महः स्मृतम् । स्थानान्येतानि चत्वारि स्मृतान्यार्णवकानि च ॥ १३
    क्षयातिशययुक्तानि तथा युक्तानि वक्ष्यते [चम्यहम्] । यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसंप्लवम् ॥
    जनस्तपश्च सत्यं च स्थानान्येतानि त्रीणि तु । एकान्तिकानि सत्त्वानि तिष्ठन्तीहाऽऽप्रसंयमात् ॥ १५
    व्यक्तानि तु प्रवक्ष्यामि स्थानान्येतानि सप्त वै । भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः ॥ १६
    स्वस्तृतीयस्तु विज्ञेयश्चतुर्थो वै महः स्मृतः । जनस्तु पञ्चमो लोकस्तपः षष्ठो विभाव्यते ॥ १७
    सत्यस्तु सप्तमो लोको निरालोकस्ततः परम् । भूरिति व्याहृते पूर्वं भूर्लोकश्च ततोऽभवत् ॥ १८
  • [द्वितीयो भुव इत्युक्त अन्तरिक्षं ततोऽभवत् । तृतीयं स्वरितीत्युक्ते दिवं प्रादुर्बभूव ह ॥ १९
    व्याहारैस्त्रिभिरेतैस्तु ब्रह्मा लोकमकल्पयत् ] । ततो भूः पार्थिवो लोकोह्यन्तरिक्षं भुवः स्मृतम् ॥ २०
    स्वर्लोको वै दिवं ह्यतत्पुराणे निश्चयं गतम् । भूतस्याधिपतिश्चाग्निस्ततो भूतपतिः स्मृतः ॥ २१
    वायुर्भुवस्याधिपतिस्तेन वायुर्भुवस्पतिः । भव्यस्य सूर्योऽधिपतिस्तेन सूर्यो दिवस्पतिः ॥ २२
    महंतिव्याहृतेनैवं महर्लोकस्ततोऽभवत् । विनिवृत्ताधिकाराणां देवानां तत्र वै क्षयः ॥ २३
    जनस्तु पञ्चमो लोकस्तस्माज्जायन्ति वै जनाः । तासां स्वायंभुवाद्यानां प्रजानां जननाज्जनः ॥ २४
    यास्ताः स्वायंभुवाद्या हि पुरस्तत्परिकीर्तिताः । कल्पदग्धे तदा लोके प्रतिष्ठति÷तदा तपः ॥ २५

  • अयं सार्धश्लोको नास्ति ग. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थो ङ्. पुस्तके । ÷ अत्र परस्मैपदमार्षम् ।