वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 399, कुल 465 में से
संदर्भ में पढ़ें३९० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०० श्लो० ३८-६१]
( मन्वन्तरनिसर्गादिकथनम् )
ये शिष्टास्तान्प्रवक्ष्यामि सह देवर्षिदानवैः । सह प्रजाविसर्गेण सर्वांस्त्वनागतान्द्विजान् ॥ ३८
वैवस्वतान्निसर्गेण तेषां ज्ञेयस्तु विस्तरः । अन्यूना नातिरिक्तास्ते यस्मात्सर्वे विवस्वतः ॥ ३९
पुनरुक्ता बहुत्वात्तु न वक्ष्ये तेषु विस्तरम् । मन्वन्तरेषु भव्येषु भूतेष्वपि तथैव च ॥ ४०
कुले कुले निसर्गास्तु तस्माद्द्वयो विभागाः । तेषामेव हि सिद्ध्यर्थं विस्तरेण क्रमेण च ॥ ४१
दक्षस्य कन्या धर्मिष्ठा सुव्रता नाम विश्रुता । सर्वकन्यावशिष्टा तु श्रेष्ठा धर्मपरा सुता ॥
गृहीत्वा तां पिता कन्यां जगाम ब्रह्मणोऽन्तिके ॥ ४२
वैराजस्तमुपासीनं धर्मेण च भवेन च । मेवधर्मसमीपस्थं दक्षं ब्रह्माऽभ्यभाषत ॥ ४३
दक्ष कन्या तवेयं वै जनयिष्यति सुव्रत । चतुरो वै मनून्पुत्रांश्चातुर्वर्ण्यकराञ्छुभान् ॥ ४४
ब्रह्मणो वचनं श्रुत्वा दक्षो धर्मो भवस्तदा । तां कन्यां मनसा जग्मुस्त्रयस्ते ब्रह्मणा सह ॥ ४५
सत्याभिध्यायिनां तेषां सद्यः कन्या व्यजायत । सदृशानुरूपांस्तेषां चतुरो वै कुमारकान् ॥ ४६
सांसिद्धा कार्यकारणे संभूतास्ते श्रियाऽन्विताः । उपभोगसमर्थैश्च सद्योजातैः शरीरकैः ॥ ४७
ते दृष्ट्वा तान्सुद्यं बुद्ध्वा ब्रह्म व्याहारिणस्तदा । संरब्धा वै व्यकर्षन्त मम पुत्रो ममेत्युत ॥ ४८
आभिध्यानान्मनोत्पन्नानुचुर्वे ते परस्परम् । यो यस्य वपुषा तुल्यो भजतां स तु तं सुतम् ॥ ४९
यस्य यः सदृशश्चापि रूपे वीर्ये च नामतः । तं गृह्णातु सुभद्रं वो वर्णतो यस्य यः समः ॥ ५०
ध्रुवं रूपं पितुः पुत्रः सोऽनुरुध्यति सर्वदा । तस्मादात्मसमः पुत्रः पितुर्मातुश्च वीर्यतः ॥ ५१
एवं ते समयं कृत्वा सुवर्णा जगृहुः सुतान् । * यस्मात्सवर्णास्तेषां वै ब्रह्मादीनां कुमारकाः ॥ ५२
सवर्णा मनवस्तस्मात्सवर्णात्वं हि ते यतः । मननान्माननाच्चैव तस्मात्ते मनवः स्मृताः ॥ ५३
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतस्य ह । रुचेः प्रजापतेः पुत्रौ रौच्यो नामाभवत्सुतः ॥ ५४
भूत्यामुत्पादितो यस्तु भौत्यो नामाभवत्सुतः । वैवस्वतेऽन्तरे राजा द्वौ मनू तु विवस्वतः । ५५
वैवस्वतो मनुर्यश्च सावर्णी यश्च विश्रुतः । ज्येष्ठः संज्ञासुतो विद्वान्मनुर्वैवस्वतः प्रभुः ॥ ५६
सवर्ण्णायाः सुतश्चान्यः स्मृतो वैवस्वतो मनुः । सवर्णा मनवो ये च चत्वारस्तु महर्षिजाः ॥ ५७
तपसा संभृतात्मानः त्वेषु मन्वन्तरेषु वै । भविष्येषु भविष्यन्ति सर्वकार्यार्थसाधकाः ॥ ५८
प्रथमं मेरुसावर्णेर्दक्षपुत्रस्य वै मनोः । पुत्रा मरीचिगर्भाश्च सुशर्माणश्च ते त्रयः ॥
संभूताश्च महात्मानः सर्वे वैवस्वतेऽन्तरे ॥ ५९
दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः । भविष्यस्य भविष्यस्तु एकैको द्वादशो गणः ॥ ६०
ऐश्वर्यसंग्रहो राहो बाहुवशस्तथैव च । पारा द्वादश विज्ञेया उत्तरांस्तु निबोधत ॥ ६१
* इतःप्रभृति मनवः स्मृता इत्यन्तग्रन्थो ग पुस्तके नास्ति ।