सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 304, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 304

[अ० ७९ श्लो० ३३-६१] वायुपुराणम् । २९५

(श्राद्धकल्पः)
प्रक्षाल्य पात्रं निक्षिप्य आचम्याभ्युक्षणं पुनः । द्रव्यस्यान्यस्य तु तथा कुर्यादभ्युक्षणं पुनः ॥ ३३
पुष्पादीनां तृणानां च प्रोक्षणं हविषां तथा । पराहतानां द्रव्याणां निधायाभ्युक्षणं तथा ॥ ३४
नापोक्षितं हरेत्किंचिच्छ्राद्धे दैवे तथा पुनः । उत्तराणाऽऽहरेद्वेद्यां दक्षिणेन विसर्जयेत् ॥ ३५
*विच्छिन्नं स्याद्विपर्यासे दैवे पित्र्ये तथैव च । दक्षिणेन तु हस्तेन दक्षिणां वेदिमालिखेत् ॥ ३६
कराभ्यामेव देवानां पितॄणां विकरं (?)शुभम् । क्षुभितस्वमयोश्चैव तथा मूत्रपुरीषयोः ॥ ३७
निष्ठोविते तथा व्यक्ते भुक्त्वा विपरिधाय च । उच्छिष्टस्य च संस्पर्शे तथा पदावसेचने ॥ ३८
उत्सृष्टस्य सुसंभाषे ह्यशुचिं (?)प्रयतस्य च । संदेहेषु च सर्वेषु शिखां मुक्त्वा तथैव च ॥ ३९
विना यज्ञोपवीतेन मोहात्तु यदुपस्पृशेत् । ओष्ठस्य दन्तसंस्पर्शे दर्शने चान्त्यवासिनाम् ॥ ४०
जिह्वया चैव संस्पृश्य दन्तासक्तं तथैव च । सशब्दमङ्गुलीभिश्च प्रणतश्चावलोकयन् ॥ ४१
यश्चाधर्मे स्थितो मोहादाचान्तोऽप्यशुचिर्भवेत् । उपविश्य शुचौ देशे प्रणतः प्रागुदङ्मुखः ॥ ४२
पादौ प्रक्षाल्य हस्तौ तु अन्तर्जानुरुपस्पृशेत् । प्रसन्नाद्भिः पिबेच्चापः प्रयतः सुसमाहितः ॥ ४३
द्विरेव मार्जनं कुर्यात्सकृदभ्युक्षणं ततः । खानि मूर्धानमात्मानं हस्तौ पादौ तथैव च ॥ ४४
अभ्युक्षणं तथा तस्य यद्यमीमांसितं भवेत् । एवमाचमनं तस्य वेदा यज्ञास्तपांसि च ॥ ४५
दानानि ब्रह्मचर्यं च भवन्ति सफलास्तथा । क्रियां यः कुरुते मोहादनाचम्यैव नास्तिकः ॥ ४६
भवन्ति च वृथा तस्य क्रिया हेता न संशयः । वाग्भावशुद्धन्निर्णिक्तमदुष्टं वाऽप्यनिन्दितम् ॥ ४७
मेध्यान्येतानि ज्ञेयानि दुष्टेभ्यो विपर्ययः । न वक्तव्यः सदा विप्रः क्षुधितो नास्ति किंचन ॥ ४८
तस्मै सत्कृत्य यो दद्याद्यूपो यज्ञ उच्यते । अप्लुष्टान्नं शृतानं तु कृशवृत्तिंमयाचकम् ॥ ४९
एकान्तशीलं ह्रीमन्तं सदा श्राद्धेषु भोजयेत् । यो ददात्यन्तिमेभ्यश्च स ब्रह्मघ्नो दुरात्मवान् ॥ ५०
अपि जातिशतं गत्वा न स मुच्येत किल्बिषात् । विषमं भोजयेद्विप्रानेक ङ्क्त्यां च यो नरः ॥ ५१
नियुक्तो वाऽनियुक्तो वा पङ्क्त्या हरति दुष्कृतम् । पापेन गृह्यते क्षिप्रमिष्टापूर्त्तं च नश्यति ॥ ५२
यतिस्तु सर्वविप्राणां सर्वेषामग्र्य उत्सवे । इतिहासपञ्चमान्वेदान्यः पठेत्तु द्विजोत्तमः ॥ ५३
अनन्तरं यथायोग्यं नियोक्तव्यो विजानता । त्रिवेदोऽनन्तरस्तस्य द्विवेदस्तदनन्तरः ॥ ५४
एकवेदस्तथा पश्चान्न्यायाध्यायी ततः परम् । पावना ये च पङ्क्त्या वै तान्प्रवक्ष्ये निबोधत ॥ ५५
य एते पूर्वनिर्दिष्टा : सर्वे ते ह्यनुपूर्वशः । षडङ्गी विनयी योगी सर्वतन्त्रस्तथैव च ॥ ५६
यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः । अष्टादशानां विद्यानामेकः स्यात्पारगोऽपि यः ॥ ५७
यथावद्वर्तमानश्च सर्वे ते पङ्क्तिपावनाः । त्रिणाचिकेतस्त्रैविद्यो यश्च धर्मानपठेत्द्विजः ॥ ५८
बार्हस्पत्ये तथा शास्त्रे पारं यश्च द्विजो गतः । सर्वे ते पावना विप्राः पङ्क्तीनां समुदाहृताः ॥ ५९
आमान्त्रितस्तु यः श्राद्धे योषितं सेवते द्विजः । पितरस्तस्य तं मासं तस्य रेतसि शेरते ॥ ६०
श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं यो निषेवते । पितरस्तस्य तं मासं रेतःस्था नात्र संशयः ॥ ६१


* इदमर्धं नास्ति ख. ग. पुस्तकयोः ।