सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 242, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 242

[अ०६५श्लो०५६-८१] वायुपुराणम् । २३३

( प्रजापतिवंशानुकीर्तनम् )
जाता भस्मव्यपोहिन्यां ब्रह्मर्षिगणसंमताः । वैखानसा मुनिगणास्तपःश्रुतपरायणाः ॥ ५६
श्रोतोभ्यस्तस्य चोत्पन्नावश्विनौ रूपसंमितौ विदुर्जन्माक्षरजसो विमला नेत्रसंभवाः ॥ ५७
ज्येष्ठाः प्रजानां पतयः श्रोतोभ्यस्तस्य जज्ञिरे । ऋषयो रोमकूपेभ्यस्तथा स्वेदमलोद्भवः ॥ ५८
दारुणा हि रुते मासा निर्यासाः पक्षसंधयः । वत्सरा ये त्वहोरात्राः पित्रं (त्र्यं) ज्योतिश्च दारुणम् ॥ ५९
रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम् । तन्मैत्रमिति विज्ञेयं धूम्रश्च पशवः स्मृताः ॥ ६०
येऽर्चिषस्तस्य ते रुद्रास्तथाऽऽदित्याः समुद्भवाः । अङ्गारेभ्यः समुत्पन्ना ज्योतिषो दिव्यमानुषाः ॥ ६१
आदिमानस्य लोकस्य ब्रह्मा ब्रह्मसमुद्भवः । सर्वकामदमित्याहुस्तत्र कन्यामुदाहरन् ॥ ६२
ब्रह्मा सुरगुरुस्तत्र त्रिदशैः संप्रसीदति । इमे वै जनयिष्यन्ति प्रजाः सर्वाः प्रजेश्वराः ॥ ६३
सर्वे प्रजानां पतयः सर्वे चाप तपस्विनः । तत्प्रसादादिमाँल्लोकान्धारयेयुरिमाः क्रियाः ॥ ६४
द्वंद्वं संवर्धयामास तव तेजो विवर्धनम् । देवेषु वेदविद्वांसः सर्वे राजर्षयस्तथा ॥ ६५
वेदमन्त्रपराः सर्वे प्रजापतिगुणोद्भवाः । अनन्तं ब्रह्म सत्यं च तपश्च परमं भुवि ॥ ६६
सर्वे हि वयमेते च तवैव प्रसवः प्रभो । ब्रह्म च ब्राह्मणाश्चैव लोकाश्चैव चराचराः ॥ ६७
मरीचिमादितः कृत्वा देवाश्च ऋषिभिः सह । अपत्यानीह संचिन्त्य तेऽपत्यं कामयामहे ॥ ६८
तस्मिन्यज्ञे महाभागा देवाश्च ऋषिभिः सह । एतद्वंशसमुद्भूताः स्थानकालाभिमानिनः ॥ ६९
न च तेनैव रूपेण स्थापयेयुरिमाः प्रजाः । युगादिनिधनाश्चैव स्थापयेयुरिमाः प्रजाः ॥ ७०
ततोऽब्रवल्लोकगुरुः परमित्यविचारयन् । एवं देवा विनिश्चित्य मया सृष्टा न संशयः ॥
भवतां वंशसंभूताः पुनरेते महर्षयः ॥ ७१
तेषां भृगोः कीर्तयिष्ये वंशं पूर्वं महात्मनः । विस्तरेणाऽनुपूर्व्या च प्रथमस्य प्रजापतेः ॥ ७२
भार्ये भृगोरपतिमे उत्तमेऽभिजने शुभे । हिरण्यकशिपोः कन्या दिव्या नाम परिश्रुता ॥
पुलोम्नश्चापि पौलोमी दुहिता वरवर्णिनी ॥ ७३
भृगोस्त्वजनयद्दिव्या काव्यं वेदविदां वरम् । देवासुराणामाचार्यं शुक्रं कविसुतं ग्रहम् ॥ ७४
स शुक्रश्चोशना ख्यातः स्मृतः काव्योऽपि नामतः । पितॄणां मानसी कन्या सोमपानां यशस्विनी
शुक्रस्य भार्या गोनाम विजज्ञे चतुरः सुतान् ॥ ७५
ब्राह्मेण तेजसा युक्तः स जातो ब्रह्मवित्तमः । तस्यामेव तु चत्वारः पुत्राः शुक्रस्य जज्ञिरे ॥ ७६
त्वष्टा वरूत्री द्वावेतौ षण्डामर्को च तावुभौ । ते तदाऽऽदित्यसंकाशा ब्रह्मकल्पाः प्रभावतः ॥ ७७
रञ्जनः पृथुरश्मिश्च विद्वान्यस्य बृहद्गिराः । वरूत्रिणः सुता ह्येते बलिष्ठाः सुरयाजकाः ॥ ७८
इज्याधर्मविनाशार्थं मनुमेत्याभ्ययोजयन् । निरस्यमानं वै धर्मं दृष्ट्वेन्द्रो मनुमब्रवीत् ॥ ७९
एतैरेव तु कामं त्वां प्रापयिष्यामि याजनम् । श्रुत्वेन्द्रस्य तु तद्वाक्यं तस्माद्देशादपाक्रमत् ॥ ८०
तिरोभूतेषु तेष्विन्द्रो धर्मपत्नीं च चेतनाम् । ग्रहेण मोचयित्वा तु ततः सोऽनुससार ताम् ॥ ८१

३०