सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 236, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 236

[अ० ६३ श्लो० ५-२९] | वायुपुराणम् । | २२७
( पृथुवंशानुकीर्तनम् )
एवंप्रभावो राजाऽऽसीद्वैन्यः स नृपसत्तमः । नमस्यश्चैव पूज्यश्च भूतग्रामेण सर्वशः ॥ ५
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः । पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ ६
पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः । आदिराजा नमस्कार्यः पृथुर्वैन्यः प्रतापवान् ॥ ७
योधैरपि च सङ्ग्रामे प्रार्थयानैर्जयं युधि । आदिकर्ता नराणां वै नमस्यः पृथुरेव हि ॥ ८
यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् । स घोररूपे सङ्ग्रामे क्षेमी तरति कीर्तिमान् ॥ ९
वैश्यैरपि च राजर्षिर्वैश्यवृत्तिसमाश्रितैः । पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥ १०
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च । पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम् ॥ ११
ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना । वायुं कृत्वा तदा वत्सं बीजानि वसुधातले ॥ १२
ततः स्वायम्भुवे पूर्वं तदा मन्वन्तरे पुनः । वत्सं स्वायम्भुवं कृत्वा दुग्धाऽऽग्नीध्रेण वै मही ॥ १३
मनौ स्वारोचिषे दुग्धा मही चैत्रेण धीमता । [* मनुं स्वारोचिषं कृत्वा वत्सं सस्यानि वै पुरा ॥ १४
उत्तमेऽनुत्तमेनापि दुग्धा देवभुजेन तु । मनुं कृत्वोत्तमं वत्सं सर्वसस्यानि धीमता ॥ ] १५
पुनश्च पञ्चमे पृथ्वी तामसस्यान्तरे मनोः । दुग्धेयं तामसं वत्सं कृत्वा तु बलबन्धुना ॥ १६
चारिष्णवस्य देवस्य संप्राप्ते चान्तरे मनोः । दुग्धा मही पुराणेन वत्सं चारिष्णवं प्रति ॥ १७
चाक्षुषेऽपि च संप्राप्ते तदा मन्वन्तरे पुनः । दुग्धा मही पुराणेन वत्सं कृत्वा तु चाक्षुषम् ॥ १८
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः । वैन्येनेयं मही दुग्धा यथा ते कीर्तितं मया ॥ १९
एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वन्तरेषु वै । देवादिभिर्मनुष्यैश्च तथा भूतादिभिश्च यः ॥ २०
( +एवं सर्वेषु विज्ञेया ह्यतीतानागतेष्विह । देवा मन्वन्तरेष्वस्य पृथोस्तु शृणुत प्रजाः ॥ २१
पृथॊस्तु पुत्रौ विक्रान्तौ जज्ञातेऽन्तर्धिपालिनौ । शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत ॥ २२
हविर्धानात्षडाग्नेयी धिषणाऽजनयत्सुतान् । प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ॥ २३
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः । बलश्रुततपोवीर्यैः पृथिव्यामेकराडसौ ॥
प्राचीनाग्राः कुशास्तस्य तस्मात्प्राचीनबर्हिसौ ॥ २४
समुद्रतनयायां तु कृतदारः स वै प्रभुः महतस्तमसः पारे सवर्णायां प्रजापतिः ॥
सवर्णाऽधत्त सामुद्री दश प्राचीनबर्हिषः ) ॥ २५
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः । अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः ॥
दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥ २६
तपश्चरत्सु पृथिवी प्रचेतःसु महीरुहाः । अरक्ष्यमाणाः खं ववृधुर्भुवाथ प्रजाक्षयः ॥ २७
प्रत्याहृते तदा तस्मिंश्चाक्षुषस्यान्तरे मनोः । नाशकन्मारुतो वातुं वृतं खमभवद्द्रुमैः ॥
दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २८
तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः । मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ॥ २९


* धनुश्चिह्नान्तर्गतग्रन्थो ङ्. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ङ्. पुस्तके नास्ति ।