वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 224, कुल 465 में से
संदर्भ में पढ़ें[अ० ६१ श्लो० १२५-१४९] वायुराणम् । ११५
( प्रजापतिवंशानुकीर्तनम् )
एवमेव तु विज्ञेयं व्यतीतानागतेष्विह । मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै ॥ १२५
अतीतेषु अतीतानि वर्तन्ते सांप्रतेषु च । भविष्याणि च यानि स्युर्वर्ण्यन्तेऽनागतेष्वपि ॥ १२६
पूर्वेण पश्चिमं ज्ञेयं वर्तमानेन चोभयम् । एतेन क्रमयोगेन(ण)मन्वन्तरविनिश्चयः ॥ १२७
एवं देवाश्च पितर ऋषयो मनवश्च ये । मन्त्रैः सहोर्ध्वं गच्छन्ति ह्यावर्तन्ते च तैः सह ॥ १२८
जनलोकात्सुराः सर्वे पद्मकल्पात्पुनः पुनः । पर्याप्तिकाले संप्राप्ते संभूता नैव[ ध ]नस्य तु ॥ १२९
अवश्यंभाविनाऽर्थेन संबध्यन्ते तदा तु ते । ततस्ते दोषवज्जन्म पश्यन्ते रागपूर्वकम् ॥ १३०
निवर्तते तदा वृत्तिस्तेषामादोषदर्शनात् । एवं देवयुगानीह दश कृत्वा विवर्तते ॥ १३१
जनलोकात्तपोलोकं गच्छन्तीहानिवर्तनम् । एवं देवयुगानीह व्यतीतानि सहस्रशः ॥
निधनं ब्रह्मलोके वै गतानि मुनिभिः सह ॥ १३२
न शक्यमानुपूर्वेण तेषां वक्तुं सविस्तरम् । अनादित्वाच्च कालस्य असंख्यानाच्च सर्वशः ॥ १३३
मन्वन्तराण्यतीतानि यानि कल्पैः पुरा सह । पितृभिर्मुनिभिर्देवैः सार्धं सप्तर्षिभिश्च वै ॥
कालेन प्रतिसृष्टानां युगानां च निवर्तनम् ॥ १३४
एतेन क्रमयोगेन( ण )कल्पमन्वन्तराणि तु । सप्तजानि व्यतीतानि शतशोऽथ सहस्रशः ॥ १३५
मन्वन्तरान्ते संहारः संहारान्ते च संभवः । देवतानामृषीणां च मनोः पितृगणस्य च ॥ १३६
न शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि । विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः ॥
मन्वन्तरस्य संख्या तु मानुषेण निबोधत ॥ १३७
देवतानामृषीणां च संख्यानार्थविशारदैः । त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया द्विजैः
सप्तषष्टिश्चान्यानि नियुतानि च संख्यया । विंशतिश्च सहस्राणि कालोऽयं सांधिकाद्दिना ॥
मन्वन्तरस्य संख्यैषा मानुषेण प्रकीर्तिता । वत्सरेणैव दिव्येन प्रवक्ष्याम्यन्तरं मनोः ॥ १४०
अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम् । द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ॥ १४१
चतुर्दशगुणो ह्येष काल आभूतसंप्लवः । पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम् ॥ १४२
तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः । ब्राह्मणमग्रतः कृत्वा सह देवर्षिदानवैः ॥
प्रविशन्ति सुरश्रेष्ठं देवदेवं महेश्वरम् ॥ १४३
स स्रष्टा सर्वभूतानि कल्पादिषु पुनः पुनः । इत्येष स्थितिकालो वै मनोर्देवर्षिभिः सह ॥ १४४
सर्वमन्वन्तराणां वै प्रतिसंधिं निबोधत । युगाख्या या समुद्दिष्टा प्रागेवास्मिन्मयाऽनघाः ॥ १४५
कृतत्रेतादिसंयुक्तं चतुर्युगमिति स्मृतम् । तदेकसप्ततिगुणं परिवृत्तं तु साधिकम् ॥
मनोरेतमधीकारं प्रोवाच भगवान्प्रभुः ॥ १४६
एवं मन्वन्तराणां तु सर्वेषामेव लक्षणम् । अतीतानागतानां वै वर्तमानेन कीर्तितम् ॥ १४७
इत्येष कीर्तितः सर्गो मनोः स्वायंभुवस्य ह । प्रतिसंधिं तु वक्ष्यामि तस्य चैवापरस्य तु ॥ १४८
मन्वन्तरं यथा पूर्वमृषिभिर्देवैः सह । अवश्यंभाविनाऽर्थेन यथा तद्वै निवर्तते ॥ १४९