वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 219, कुल 465 में से
संदर्भ में पढ़ें२१० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६१ श्लो० १२-३३]
( प्रजापतिवंशानुकीर्तनम् )
सूत उवाच--
कार्यमासीदृषीणां च किंचिद्ब्राह्मणसत्तमाः । येरुष्टं मेस्तदा त्विति मन्त्रितम् ॥ १२
यो नोऽत्र सप्तरात्रेण नाऽगच्छेद्द्विजसत्तमाः । स कुर्याद्ब्रह्मवध्यां वै समयो नः प्रकीर्तितः ॥ १३
ततस्ते सगणाः सर्वे वैशम्पायनवज्जिताः । प्रययुः सप्तरात्रेण यत्र संधिः कृतोऽभवत् ॥ १४
ब्राह्मणानां तु वचनाद्ब्रह्मवध्यां चकार सः । शिष्यानथ समानीय स वैशम्पायनोऽब्रवीत् ॥ १५
ब्रह्मवध्यां चरध्वं वै मत्कृते द्विजसत्तमाः । सर्वे यूयं समागम्य ब्रूत मैतद्धितं वचः ॥ १६
याज्ञवल्क्य उवाच--
अहमेव चरिष्यामि तिष्ठन्तु मुनयास्त्विमे । बलं चोत्थापयिष्यामि तपसा स्वेन भावितः ॥ १७
एवमुक्तस्ततः क्रुद्धो याज्ञवल्क्यमथाब्रवीत् । उवाच यत्त्वयाऽधीतं सर्वं प्रत्यर्पयस्व मे ॥ १८
एवमुक्तः स रूपाणि यजूंषि प्रददौ गुरोः । रुधिरेण तथाक्तानि छर्दित्वा ब्रह्मवित्तमः ॥ १९
ततः स ध्यानमास्थाय सूर्यमाराधयद्विजाः । सूर्यब्रह्म यदुच्छिन्नं खं गत्वा प्रतितिष्ठति ॥ २०
ततो यानि गतान्यूर्ध्वं यजूंष्यादित्यमण्डलम् । तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरातये ॥
अश्वरूपाय मार्तण्डो याज्ञवल्क्याय धीमते ॥ २१
यजूंष्यधीयन्ते यानि ब्राह्मणा येन केन च । अश्वरूपाय दत्तानि ततस्ते वाजिनोऽभवन् ॥ २२
ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः । वैशम्पायनशिष्यास्ते चरकाः समुदाहृताः ॥ २३
इत्येते चरकाः प्रोक्ता वाजिनस्तान्निबोधत । याज्ञवल्क्यस्य शिष्यास्ते कण्ववैधेयशालिनः ॥ २४
मध्यन्दिनश्च शापेयी विदिग्धश्चाप्य उद्दलः । ताम्रायणश्च वात्स्यश्च तथा गालवशौषिरी ॥
आटवी च तथा पर्णी वीरणी सपरायणः ॥ २५
इत्येते वाजिनः प्रोक्ता दश पञ्च च संस्मृताः । शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥ २६
पुत्रमध्यापयामास सुमन्तुमथ जैमिनिः । सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयत्प्रभुः ॥
- सुकर्माणं सुतं सुत्वा पुत्रमध्यापयत्प्रभुः । २७
स सहस्रमधीत्याऽऽशु सुकर्माऽप्यथ संहिताः । प्रोवाचाथ सहस्रस्य सुकर्मा सूर्यवर्चसः ॥ २८
अनध्यायेष्वधीयानांस्ताञ्घान शतक्रतुः । प्रायोपवेशमकरोत्ततोऽसौ शिष्यकारणात् ॥ २९
क्रुद्धं दृष्ट्वा ततः शक्रो वरमस्मै ददौ पुनः । भाविनौ ते महावीर्यौ शिष्यावनलवर्चसौ ॥ ३०
शधीयानौ महाप्राज्ञौ सहस्रं संहितावभौ । एतौ सुरौ महाभागौ मा क्रुध्य द्विजसत्तम ॥ ३१
इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम् । शान्तक्रोधं द्विजं दृष्ट्वा तत्रैवान्तरधीयत ॥ ३२
तस्य शिष्यो भवद्धीमान्पौष्यञ्जि द्विजसत्तमः । हिरण्यनाभः कौशल्यो द्वितीयोऽभून्नराधिपः ॥ ३३ .
- इदमर्धं नास्ति ख. घ. पुस्तकयोः ।