वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 216, कुल 465 में से
संदर्भ में पढ़ें[अ० ६० श्लो २९-४७] वायुपुराणम् । २०७
( महास्थानतीर्थवर्णनम् )
सोऽपि सत्यतरं पुत्रं ु नरध्यापयद्विभुः । सत्यश्रियं महात्मानं सत्यधर्मपरायणम् ॥ २९
अभवंस्तस्य शिष्या वै त्रयस्तु सुमहौजसः । सत्यश्रियस्तु विद्वांसः शास्त्रग्रहणतत्पराः ॥ ३०
शाकल्यः प्रथमस्तेषां तस्मादन्यो रथान्तरः । बाष्कालिश्च भरद्वाज इति शाखाप्रवर्तकाः ॥ ३१
देवमित्रस्तु शाकल्यो ज्ञानाहंकारगर्वितः । जनकस्य स यज्ञे वै विनाशमगमद्द्विजः ॥ ३२
शांशपायन उवाच--
कथं विनाशमगमत्स मुनिर्ज्ञानगर्वितः । जनकस्याश्वमेधेन कथं वादो बभूव ह ॥ ३३
किमर्थं चाभवद्वादः केन सार्धमथापि वा । सर्वमेतद्यथावृत्तमाचक्ष्व विदितं तव ॥
ऋषीणां तु वचः श्रुत्वा तदुत्तरमथाब्रवीत् ॥ ३४
सूत उवाच--
जनकस्याश्वमेधे तु महानासीत्समागमः । ऋषीणां तु सहस्राणि तत्राऽऽजग्मुरनेकंशः ॥
राजर्षेर्जनकस्याथ तं यज्ञं हि दिदृक्षव ॥ ३५
आगतान्ब्राह्मणान्दृष्ट्वा जिज्ञासाऽस्याभवत्ततः । को न्वेषां ब्राह्मणः श्रेष्ठः कथं मे निश्चयो भवेत् ॥
इति निश्चित्य मनसा बुद्धिं चक्रे जनाधिपः ॥ ३६
गवां सहस्रमादाय सुवर्णमधिकं ततः । ग्रामान्रत्नानि दासांश्च मुनीन्प्राह नराधिपः ॥ ३७
सर्वांनहं प्रसन्नोऽस्मि शिरसा श्रेष्ठभागिनः ॥ ३८
यदेदाहृतं वित्तं यो वः श्रेष्ठतमो भवेत् । तस्मै तदुपनीतं हि विद्यावित्तं द्विजोत्तमाः ॥
जनकस्य वचः श्रुत्वा मुनयस्ते श्रुतिक्षमाः । दृष्ट्वा धनं महासारं धनवृद्ध्या जिघृक्षवः ॥ ३९
आह्वयांचकुरन्योन्यं वेदज्ञानमदोल्वणाः ॥
मनसा गतचित्तास्ते ममेदं धनमित्युत । ममैवैतन्नचेतन्यन्यो ब्रूहि किं वा विकल्प्यते ॥
इत्येव धनदोषेण वादांश्चकुरनेकंशः ॥ ४०
तथाऽन्यस्तत्र वै विद्वान्ब्रह्मवाहसुतः कविः । याज्ञवल्क्यो महातेजास्तपस्वी ब्रह्मवित्तमः ॥ ४१
ब्रह्मणोऽङ्गात्समुत्पन्नो वाक्यं प्रोवाच सुस्वरम् । शिष्यं ब्रह्मविदां श्रेष्ठो धनमेतद्गृहाण भोः ॥ ४२
नयस्व च गृहंत्वत्स ममैतन्नात्र संशयः । सर्ववेदेष्वहं वक्ता नान्यः कश्चित्तु मत्समः ॥
यो वा न मीयते विप्रः स मे ह्वयतु मा चिरम् ॥ ४३
ततो ब्रह्मार्णवः क्षुब्धः समुद्र इव संप्लवे । तानुवाच ततः स्वस्थो याज्ञवल्क्यो हसन्निव ॥ ४४
क्रोधं मा कार्षुविद्वांसो भवन्तः सत्यवादिनः । वदामहे यथायुक्तं जिज्ञासन्तः परस्परम् ॥ ४५
ततोऽभ्युपागमंस्तेषां वादा जग्मुरनेकंशः । सहस्रधा शुभैरर्थैः सूक्ष्मदर्शनसंभवैः ॥ ४६
लोके वेदे तथाऽध्यात्म विद्यास्थानैरंलकृताः । शापोत्तमगुणैर्युक्ता नृपोधपरिर्वरजनाः ॥
वादाः समभवंस्तत्र धनेहेतोर्महात्मनाम् ॥ ४७