सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 200, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 200

[अ०५७-श्लो०४५-६९] वायुपुराणम् । १६१
( यज्ञवर्णनम्ः )

प्रणाशे त्वथ सिद्धीनामप्यासां च प्रवर्तनम् । आसन्मन्त्रा व्यतीतेषु ये कल्पेषु सहस्रशः ॥
ते मन्त्रा वै पुनस्तेषां प्रतिभासमुत्थिताः ॥ ४५
ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणानि च । सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्तं धर्मं मनुर्जगौ ॥
त्रेतादौ संहिता वेदाः केवला धर्मशेषतः । संरोधादायुषश्चैव व्यसन्ते द्वापरेषु ते ॥ ४७
ऋषयस्तपसा देवाः कलौ च द्वापरेषु वै । अनादिनिधना दिव्याः पूर्वं सृष्टाः स्वयंभुवा ॥ ४८
सधर्माः सप्रजाः साङ्गा यथाधर्मं युगे युगे । विक्रियन्ते समानार्था वेदवादा यथा युगम् ॥ ४९
आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशांपतेः । परिचारयज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः ॥ ५०
तदा प्रमुदिता वर्णास्त्रेतायां धर्मपालिताः । क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनस्तथा ॥ ५१
ब्राह्मणाननुवर्तन्ते क्षत्रियाः क्षत्रियान्विशः । वैश्यानुवर्तिनः शूद्राः परस्परमनुव्रताः ॥ ५२
शुभाः प्रवृत्तयस्तेषां धर्मा वर्णाश्रमास्तथा । संकल्पितेन मनसा वाचोक्तेन स्वकर्मणा ॥
त्रेतायुगे त्वविकलः कर्मारम्भः प्रसिध्यति ॥ ५३
आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता । सर्वसाधारणा ह्येते त्रेतायां वै भवन्त्युत ॥ ५४
वर्णाश्रमव्यवस्थां तेषां ब्रह्मा तथाऽकरोत् । पुनः प्रजास्तु ता मोहात्तान् धर्मान् न्यपालयन् ॥ ५५
परस्परविरोधेन मनुं ताः पुनरन्वयुः । मनुः स्वायंभुवो दृष्ट्वा याथातथ्यं प्रजापतिः ॥ ५६
ध्यात्वा तु शतरूपायाः पुमान्स उदपादयत् । प्रियव्रतोत्तानपादौ प्रथमं तौ महीपती ॥ ५७
ततः प्रभृति राजान उत्पन्ना दण्डधारिणः । प्रजानां रञ्जनाच्चैव राजानस्त्वभवन्नृपाः ॥ ५८
प्रच्छन्नपापा ये जेतुमशक्या मनुजा भुवि । धर्मसंस्थापनार्थाय तेषां शास्त्रे तपोमयाः ॥ ५९
वर्णानां प्रविभागाश्च त्रेतायां संप्रकीर्तिताः । संहिताश्च ततो मन्त्रा ऋषिभिर्ब्राह्मणैस्तु ते ॥ ६०
यज्ञः प्रवर्तितश्चैवं तदा ह्येव तु दैवतैः । यागे शुक्रैर्जपैश्चैव सर्वसंभारसंवृतैः ॥ ६१
सार्धं विश्वभुजा चैव देवेन्द्रेण महौजसा । स्वायंभुवेऽन्तरे देवैर्यज्ञास्ते वाक्प्रवर्तिताः ॥ ६२
सत्यं जपस्तपो दानं त्रेतायां धर्म उच्यते । क्रिया धर्मश्च ह्रसते सत्यधर्मः प्रवर्तते ॥ ६३
प्रजायन्ते ततः शूरा आयुष्मन्तो महाबलाः । न्यस्तदण्डमहाभागा यज्वानो ब्रह्मवादिनः ॥ ६४
मद्मपत्रायताक्षाश्च पृथूरस्काः सुसंहिताः । सिंहान्तका महासत्त्वा मत्तमातङ्गगामिनः ॥ ६५
महाधनुर्धराश्चैव त्रेतायां चक्रवर्तिनः । सर्वलक्षणसंपन्ना न्यग्रोधपरिमण्डलाः ॥ ६६
न्यग्रोधौ तौ स्मृतौ बाहू व्यामो न्यग्रोध उच्यते । व्यामेनैवोच्छ्रयो यस्य सम ऊर्ध्वं तु देहिनः ॥
समुच्छ्रयपरणाहो ज्ञेयो न्यग्रोधमण्डलः ॥ ६७
चक्रं रथो मणिर्भार्या निधिरश्वा गजास्तथा । सप्तातिशयरत्नानि सर्वेषां चक्रवर्तिनाम् ॥ ६८
चक्रं रथो मणिः खड्गं धनूरत्नं च पञ्चमम् । केतुर्निधिश्च सप्तैते प्राणहीनाः प्रकीर्तिताः ॥ ६९