वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 175, कुल 465 में से
संदर्भ में पढ़ें१६६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ५१-५२ श्लो० ७४-७६-१-२१]
( ज्योतिषप्रचारः )
आकृष्येते यदा तौ वै ध्रुवेण समधिष्ठितौ । तदा सोऽभ्यन्तरं सूर्यो भ्रमते मण्डलानि तु ॥ ७४
अशीतिमण्डलशतं काष्ठयोरुभयोश्चरन् । ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु ॥ ७५
तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु । उद्देष्टयन् स वेगेन मण्डलानि तु गच्छति ॥ ७६
इति श्रीमहापुराणे वायुप्रोक्तेऽनुषङ्गपादे ज्योतिषप्रचारो नामैकापञ्चाशोऽध्यायः ॥ ५१ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३९३०
अथ द्विपञ्चाशोऽध्यायः ।
ज्योतिष्प्रचारः ।
सूत उवाच--
स रथोऽधिष्ठितो देवैरादित्यैर्ऋषिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पर्राक्षसैः ॥ १
एते वसन्ति वै सूर्ये द्वौ द्वौ मासौ क्रमण तु । धाताऽर्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः ॥ २
उरगो वासुकिश्चैव संकीर्णारश्च तावुभौ । तुम्बुरुर्नारदश्चैव गन्धर्वौ गायतां वरौ ॥ ३
ऋतुस्थत्यप्सराश्चैव तथा वै पुञ्जिकस्थला । ग्रामणी रथकृच्छ्रश्च तथोर्जश्चैव तावुभौ ॥ ४
रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ । मधुमाधवयोरेष गणो वसति भास्करे ॥ ५
वासन्तौ ग्रैष्मिकौ मासौ मित्रश्च वरुणश्च ह । ऋषिरत्रिर्वशिष्ठश्च तक्षको रम्भ एव च ॥ ६
मेनका सहजन्या च गन्धर्वौ च हहा हहूः । रथस्वनश्च ग्रामण्यौ रथचित्रश्च तावुभौ ॥ ७
पौरुषेयो वधश्चैव यातुधानावुदाहृतौ । एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः ॥ ८
ततः सूर्ये पुनस्त्वन्या निवसन्तीह देवताः । इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च ॥ ९
एलापर्णस्तथा सर्पः शङ्खपालश्च तावुभौ । विधावसुस्सेनौ च मातशचैवारुणश्च ह ॥ १०
प्रम्लोचेति च विख्याता निम्लोचेति च ते उभे । यातुधानस्तथा सर्पो व्याघ्रः श्वतश्च तावुभौ
नभोनभस्ययोरेष गणो वसति भास्करे ॥ ११
शरदृतौ पुनः शुभ्रा वसन्ति मुनिदेवताः । पर्जन्यश्चाथ पूषा च भरद्वाजः सगौतमः ॥ १२
विश्वावसुश्च गन्धर्वास्तथैव सुरमिश्च यः(या) । विश्वाची वा घृताची च उभे ते शुभलक्षणे ॥ १३
नाग ऐरावतश्चैव विश्रुतश्च धनंजयः । सेन(ना)जिच्च सुषेणश्च सेनानीर्ग्रामणीश्च तौ ॥ १४
आपो वातश्च तावेतौ यातुधानावुभौ स्मृतौ । वसन्त्येते तु वै सूर्ये मासयोश्च इषोर्जयाः ॥ १५
हैमन्तिकौ तु द्वौ मासौ वसन्ति तु दिवाकरे । अंशो भगश्च दावेतौ कश्यपश्च ऋतुश्च ह ॥ १६
भुजङ्गश्च महापद्मः सर्पः कर्कोटकस्तथा । चित्रसेनश्च गन्धर्व ऊर्णायुश्चैव तावुभौ ॥ १७
उर्वशी विप्रचित्तिश्च तथैवाप्सरसौ शुभे । तार्थ्यश्चारिष्टनेमिश्च सेनानीर्ग्रामणीश्च तौ ॥ १८
विद्युत्स्फूर्जश्च तावुग्रौ यातुधानावुदाहृतौ । सहै चैव सहस्ये च वसन्त्येते दिवाकरे ॥ १९
ततः शैशिरयोश्चापि मासयोर्निवसन्ति वै । त्वष्टा विष्णोर्जमदग्निर्विश्वामित्रस्तथैव च ॥ २०
काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ । गन्धर्वौ धृतराष्ट्रश्च सूर्यवर्चास्तथैव च ॥ २१