वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 171, कुल 465 में से
संदर्भ में पढ़ें१६२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०५०श्लो०२०३-२२३]
( ज्योतिषप्रचारः )
संवत्सरास्ततो ज्ञेयाः पञ्चाब्दा ब्रह्मणः सुताः । तस्मात्तु ऋतवो ज्ञेया ऋतवो ह्यन्तराः स्मृताः ॥ २०३
तस्मादनुमुखां ज्ञेया अमावास्याऽस्य पर्वणः । तस्मान्तु विषुवं ज्ञेयं पितृदेवहितं सदा ॥ २०४
एवं ज्ञात्वा न मुह्येत देवे पित्र्ये च मानवः । तस्मात्स्मृतं प्रजानां वै विषुवत्सर्वगं सदा ॥ २०५
आलोकान्तः स्मृतो लोको लोकान्तो लोक उच्यते । लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः ॥
चत्वारस्ते महात्मानस्तिष्ठन्त्याभूतसंप्लवात् । सुधामः चैव वैराजः कर्दमः शङ्खपास्तथा ॥
हिरण्यलोमा पर्जन्यः केतुमान्रजतश्च यः ॥ २०७
निर्द्वंद्वा निरभीमाना निस्तन्त्रा निष्परिग्रहाः । लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ॥ २०८
उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् । पितृयाणः स वै पन्था वैश्वानरपथाद्बहिः ॥ २०९
तत्राऽऽसते प्रजावन्तो मुनयो ह्यग्निहोत्रिणः । लोकस्य संतानकराः पितृयाणे पथि स्थिताः ॥ २१०
भूतारम्भकृतं कर्म आशिषा ऋत्विगुच्यते । प्रारभन्ते लोककामास्तेषां पन्थाः स दक्षिणः ॥ २११
चलितं ते पुनर्धर्मं स्थापयन्ति युगे युगे । संतत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥ २१२
जायमानास्तु पूर्वे वै पश्चिमानां गृहेषु च । पश्चिमाश्चैव जायन्ते पूर्वेषां निधनेष्वपि ॥
एवमावर्तमानास्ते तिष्ठन्त्याभूतसंप्लवात् ॥ २१३
अष्टाशीतिसहस्राणि मुनीनां गृहमेधिनाम् । सवितुर्दक्षिणं मार्गं श्रिता ह्याचन्द्रतारकम् ॥
क्रियावतां प्रसंख्येया ये श्मशानानि भेजिरे ॥ २१४
लोकसंव्यवहारेण भूतारम्भकृतेन च । इच्छाद्वेषप्रकृत्या च मैथुनोपगमेन च ॥ २१५
तथा कायकृतेनेह सेवनाद्विषयस्य च । एतैस्तैः कारणैः सिद्धाः श्मशानानि हि भेजिरे ॥
प्रजैषिणस्ते मुनयो द्वापरेष्विह जज्ञिरे ॥ २१६
नागवीथ्युत्तरे यच्च सप्तर्षिभ्यश्च दक्षिणम् । उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ॥ २१७
यत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः । सततं ते जुगुप्सन्ते तस्मान्मृत्युर्जितस्तु तैः ॥ २१८
अष्टाशीतिसहस्राणि तेषामप्यूर्ध्वरेतसाम् । उदकपन्थानमर्यम्णः श्रिता ह्याभूतसंप्लवात् ॥ २१९
(*ते प्रसङ्गात्तु लोकस्य मैथुनस्य तु वर्जनात् । इच्छाद्वेषनिवृत्त्या च भूतारम्भविवर्जनात् ॥
पुष्टिश्च कामसंयोगाच्छब्दादेर्दोषदर्शनात् ) ॥ २२०
इत्येतैः कारणैः शुद्धैस्तेऽमृतत्वं हि भेजिरे । आभूतसंप्लवस्थानममृतत्वं विभाव्यते ॥ २२१
त्रैलोक्यस्थितिकालेऽयमपुनर्मार्गगामिनः । ब्रह्महत्याश्वमेधाभ्यां पुण्यपापकृतोऽपरम् ॥
आभूतसंप्लवान्ते तु क्षीयन्ते ह्यूर्ध्वरेतसः ॥ २२२
ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्रास्ति वै स्मृतम् । एतद्विष्णु पदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥
तत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् । धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाधकाः ॥ २२३
इति महापुराणे वायुप्रोक्ते ज्योतिषप्रचारो नाम पञ्चाशोऽध्यायः ॥ ५० ॥
आदितः श्लोकानां समष्ट्यङ्काः--३८५४
* धनुश्चिह्नान्तर्गतग्रन्थः क. ग. पुस्तकयोर्नास्ति ।