सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 168, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 168

[अ०५० श्लो० १२६--१५५] वायुपुराणम् । १५९
( ज्योतिःप्रचारः )

मण्डलं विषुवद्व्यापि ? योजनैस्तन्निबोधत । तिस्रः कोटयस्तु विस्तीर्णा विषुवद्व्यापि? सा स्मृता ॥ १२६
तथा शतसहस्राणामशीत्येकाधिका पुनः । श्रवणे चोत्तरां काष्ठां चित्रभानुर्यदा भवेत् ॥
शाकद्वीपस्य षष्ठस्य उत्तरान्तोदितश्चरन् ॥ १२७
उत्तरायां च काष्ठायां प्रमाणं मण्डलस्य च । योजनाग्रात्मसंख्याता कोटिरेका तु सा द्विजैः ॥ १२८
अशीतिर्नियुतानीह योजनानां तथैव च । अष्टपञ्चाशतं चैव योजनान्यधिकानि तु ॥ १२९
नागवीथ्युत्तरा वीथी अजवीथी च दक्षिणा । मूलं चैव तथाऽऽषाढे ह्यजवीथ्युदयास्त्रयः ॥
अभिजित्पूर्ववत् स्वातिर्नागवीथ्युदयास्त्रयः ॥ १३०
काष्ठयोरन्तरं यच्च तद्वक्ष्ये योजनैः पुनः । एतच्छतसहस्राणामेकाविंशोत्तरं शतम् ॥ १३१
त्रयस्त्रिंशाधिकाश्चान्ये त्रयस्त्रिंशच्च योजनैः । काष्ठयोरन्तरं ह्येतद्योजनाग्रात्प्रतिष्ठितम् ॥ १३२
काष्ठयोर्लेखयोश्चैव अन्तरे दक्षिणोत्तरे । ते तु वक्ष्यामि संख्याय योजनैस्तन्निबोधत ॥ १३३
एकैकमन्तरं तस्या नियुतान्येकसप्ततिः । सहस्राण्यतिरिक्ताश्च ततोऽन्या पञ्चसप्ततिः ॥ १३४
लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोः स्मृतम् । अभ्यन्तरं तु पर्येति मण्डलान्युत्तरायणे ॥ १३५
बाह्यतो दक्षिणे चैव सततं तु यथाक्रमम् । मण्डलानां शतं पूर्णमशीत्यधिकमुत्तरम् ॥ १३६
*चरते दक्षिणे चापि तावदेव विभावसुः । प्रमाणं मण्डलस्याथ योजनाग्राच्चिबोधत ॥ १३७
एकविंशद्योजनानां सहस्राणि समासतः । शते द्वे पुनरप्यन्ये योजनानां प्रकीर्तिते ॥ १३८
एकविंशतिभिश्चैव योजनैराधिकैर्हितं । एतत्प्रमाणमाख्यातं योजनैर्मण्डलं हि तत् ॥ १३९
विष्कम्भो मण्डलस्यैव तिर्यक्स तु विधीयते । प्रत्यहं चरते तानि सूर्यो वै मण्डलक्रमम् ॥ १४०
कुलालचक्रपर्यन्तो यथा शीघ्रं निवर्तते । दक्षिणे प्रक्रमे सूर्यस्तथा शीघ्रं निवर्तते ॥ १४१
तस्मात्प्रकृष्टां भूमिं च कालेनाल्पेन गच्छति । सूर्यो द्वादशभिः शीघ्रं मुहूर्तैर्दक्षिणोत्तरे ॥ १४२
त्रयोदशार्धमृक्षाणामह्नाऽनुचरते रविः । मुहूर्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ १४३
कुलालचक्रमध्यस्तु यथा मन्दं प्रसर्पति । तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥ १४४
त्रयोदशार्धमर्धेन ऋक्षाणां चरते रविः । तस्माद्दीर्घेण कालेन भूमिमल्पां निगच्छति ॥ १४५
अष्टादशमुहूर्तैस्तु उत्तरायणपश्चिमम् । अहर्भवति तच्चापि चरते मन्दविक्रमः ॥ १४६
त्रयोदशार्धमर्धेन ऋक्षाणां चरते रविः । मुहूर्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ १४७
ततो मन्दतरं ताभ्यां चक्रं भ्रमति वै यथा । मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥ १४८
त्रिंशन्मुहूर्तानेवाऽऽहुरहोरात्रं ध्रुवो भ्रमन् । उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि सः ॥ १४९
कुलालचक्रनाभिस्तु यथा तत्रैव वर्तते । ध्रुवस्तथा हि विज्ञेयस्तत्रैव परिवर्तते ॥ १५०
उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु । दिवा नक्तं च सूर्यस्य मन्दा शीघ्रा च वै गतिः ॥ १५१
उत्तरे प्रक्रमे त्विन्दोर्दिवा मन्दा गतिः स्मृता । तथैव च पुनर्नक्तं शीघ्रा सूर्यस्य वै गतिः ॥ १५२
दक्षिणे प्रक्रमे चैव दिवा शीघ्रा विधीयते । गतिः सूर्यस्त नक्तं वै मन्दा चापि तथा स्मृता ॥ १५३
एवं गतिविशेषेण विभजन्‌रात्र्यहानि तु । तथा विचरते मार्गं समेन विषमेण च ॥ १५४
लोकालोके स्थिता ये ते लोकपालाश्चतुर्दिशम् । अगस्त्यश्चरतं तेषामुपरिष्टाज्जवेन तु ॥
भजन्ससावहोरात्रमेवं गतिविशेषणैः ॥ १५५


* अत्राऽऽत्मनेपदभार्षम् ।