वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 164, कुल 465 में से
संदर्भ में पढ़ें[अ०५०-श्लो०४३-७०] वायुपुराणम् १५५
(ज्योतिष्प्रचारः)
अनेकैरदितिपुत्राणां समुदीर्णैर्महापुरैः । तथैव नागनगरैर्ऋद्धिमाद्भिः सहस्रशः ॥ ४३
दैत्यानां दानवानां च समुदीर्णैर्महापुरैः । उदीर्णैराक्षसावासैरनेकेश्च समाकुलम् ॥ ४४
पातालान्ते च विप्रेन्द्रा विस्तीर्णे बहुयोजने । आस्ते रक्तारविन्दाक्षो महात्मा ह्यजरामरः ॥ ४५
धौतशङ्खोदरवपुर्नीलवासा महाभुजः । विशालभोगो द्युतिमांश्चित्रमालाधरो बली ॥ ४६
रुक्मश्मश्रुजटादन्तन दीप्तास्येन विराजता । प्रभुर्मुखसहस्रेण शोभते वै स कुण्डली ॥ ४७
स जिह्वामालया देवो लोलज्वालानलार्चिषा । ज्वालामालापरिक्षिप्तः कैलास इव लक्ष्यते ॥ ४८
स तु नेत्रसहस्रेण द्विगुणेन विराजता । बालसूर्याभिताम्रेण शोभते स्निग्धमण्डलः ॥ ४९
तस्य कुन्देन्दुवर्णस्य अक्षमाला विराजते । तरुणादित्यमालेव श्वेतपर्वतमूर्धनि ॥ ५०
जटाकरालो द्युतिमाँल्लक्ष्यते शयनासने । विस्तीर्ण इव मेदिन्यां सहस्राशिखरो गिरिः ॥ ५१
महाभोगैर्महाभागैर्महानागैर्महाबलैः । उपास्यते महातेजा महानागपतिः स्वयम् ॥ ५२
स राजा सर्वनागानां शेषो नाम महाद्युतिः । सा वैष्णवी हरितनुर्मर्यादायां व्यवस्थिता ॥ ५३
सप्तैवेते कथिता व्यवहार्या रसातलाः । देवासुरमहानागराक्षसाध्युषिताः सदा ॥ ५४
अतः परमनलोक्यमगम्यं सिद्धसाधुभिः । देवानामप्यविदितं व्यवहाराविवर्जितम् ॥ ५५
पृथिव्यामम्बुवायूनां नभसश्च द्विजोत्तमाः । महत्त्वमेवमृषिभिर्वर्ण्यते नात्र संशयः* ॥ ५६
अत ऊर्ध्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम् । सूर्याचन्द्रमसावेतौ भ्रमन्तौ यावदेव तु ॥
प्रकाशतः स्वभाभिस्तौ मण्डलाभ्यां समास्थितौ ॥ ५७
सप्तानां च समुद्राणां द्वीपानां तु स विस्तरः । विस्तरार्धं पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥ ५८
पर्याप्तपारिमाण्यं तु चन्द्रादित्यौ प्रकाशतः । पर्याप्तपारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम् ॥ ५९
अवाति त्रीनिमाल्लोकाँन्यस्मात्सूर्यः परिभ्रमन् । अवधातुः प्रकाशार्थ्यो ह्यवनात्स रविः स्मृतः ॥ ६०
अतः परं प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः । महितत्वान्महाशब्दो ह्यस्मिन्वर्षे निपात्यते ॥ ६१
अस्य भारतवर्षस्य विष्कम्भं तु सुविस्तरम् । मण्डलं भास्करस्याथ योजनानां निबोधत ॥ ६२
नवयोजनसाहस्रो विस्तारो भास्करस्य तु । विस्तारात्त्रिगुणश्चास्य परिणाहोऽथ मण्डलम् ॥
निष्कम्भो मण्डलस्यैव भास्कराद्विगुणः शशी ॥ ६३
अतः पृथिव्यां वक्ष्यामि प्रमाणं योजनैः सह । सप्तद्वीपसमुद्राया विस्तारो मण्डलं च यत् ॥ ६४
इत्येतदिह संख्यातं पुराणं परिमाणतः । तद्वक्ष्यामि प्रसंख्याय सांप्रतैरभिमानिभिः ॥ ६५
अभिमानिन्यतीता ये तुल्यास्ते सांप्रतैरह । देवा ये वै ह्यतीतास्ते रूपैर्नामभिरेव च ॥ ६६
तस्मात्तु सांप्रतैर्देवैर्वक्ष्यामि वसुधातलम् । दिवस्तु संनिवेशो वै सांप्रतैरेव कृत्स्नशः ॥ ६७
शतातार्धकोटिविस्तारा पृथिवी कृत्स्नतः स्मृता । तस्या बाधप्रमाणेन मेरोर्वै चतुरन्तरम् ॥ ६८
पृथिव्या बाधविस्तारो योजनायात्मकल्पितः । मेरुमध्यात्प्रतिदिशं कोटिरेका तु सा स्मृता ॥ ६९
तथा शतसहस्राणि एकोननवतिः पुनः । पञ्चाशच्च सहस्राणि पृथिव्याबाधविस्तरः ॥ ७०
* षट्पञ्चाशत्तमश्लोकान्तेऽध्यायसमाप्तिः ख. पुस्तके वर्तते ।