सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 116, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 116

[अ० ३२-३३ श्लो० ६७ १-१८] वायुपुराणम् । १०७
( स्वायंभुववंशवर्णनम् )
यथा वेदश्चतुष्पादश्चतुष्पादं तथा युगम् । यथा युगं चतुष्पादं विधात्रा विहितं स्वयम् ॥
चतुष्पादं पुराणं तु ब्रह्मणा विहितं पुरा ॥
इति श्रीमहापुराणे वायुप्रोक्ते युगधर्मनिरूपणं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
आदितः श्लोकानां समष्ट्यङ्काः--२५७५


अथ त्रयस्त्रिंशोऽध्यायः ।

स्वायंभुववंशवर्णनम् ।

सूतउवाच--
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह । तुल्याभिमानिनः सर्वे जायन्ते नामरूपतः ॥ १
देवाश्च विविधा ये च तस्मिन्वन्तरेऽधिपाः । ऋषयो मनवश्चैव सर्वे तुल्याभिमानिनः ॥ २
महर्षिसर्गः प्रोक्तो वै वंशं स्वायंभुवस्य तु । विस्तरेणानुपूर्व्या च कीर्त्यमानं निबोधत ॥ ३
मनोः स्वायंभुवस्याऽऽसन्दश पौत्रास्तु तत्समाः । यैरियं पृथिवी सर्वा सप्तद्वीपसमन्विता ॥ ४
ससमुद्रा करवती प्रतिवर्षं निवेशिता । स्वायंभुवेऽन्तरे पूर्वमाद्ये त्रेतायुगे तदा ॥ ५
प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायंभुवस्य तु । प्रजासर्गतपोयोगैस्तैरियं विनिवेशिता ॥ ६
प्रियव्रतात्मजावन्तौ वीरात्कन्या व्यजायत । कन्या सा तु महाभागा कर्दमस्य प्रजापतेः ॥ ७
कन्ये द्वे शतपुत्राश्च सम्राट्कुक्षिश्च ते उभे । तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश ॥ ८
अग्नीध्रश्च वपुष्मांश्च मेधा मेधातिथिर्विभुः । ज्योतिष्मान्द्युतिमान्हव्यः सवनः सर्व एव च ॥ ९
प्रियव्रतोऽभिषिच्यैतान्सप्तसप्तसु पार्थिवान् । द्वीपेषु तेषु धर्मेण दीप्तांस्तांश्च निबोधत ॥ १०
जम्बूद्विपेश्वरं चक्रे अग्नीध्रं तु महाबलम् । प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥ ११
शाल्मलौ तु वपुष्मन्तं राजानमभिषिक्तवान् । ज्योतिष्मन्तं कुशद्वीपेश्वरं राजानं कृतवान्प्रभुः ॥ १२
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् । शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः ॥ १३
पुष्कराधिपतिं चापि सधिनं कृतवान्प्रभुः । पुष्करे सवनस्यापि महावीतः सुतोऽभवत् ॥
धातकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ ॥ १४
महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः । नाम्ना तु धातकेश्चापि धातकीखण्ड उच्यते ॥ १५
हव्यो व्यजनयत्पुत्राञ्छाकद्वीपेश्वरान्प्रभुः । जलदं च कुमारं च सुकुमारं मणीचकम् ॥
वसुमोदं सुमोदाकं सप्तमं च महाद्रुमम् ॥ १६
जलदं जलदस्याथ वर्षं प्रथममुच्यते । कुमारस्य च कौमारं द्वितीयं परिकीर्तितम् ॥ १७
सुकुमारं तृतीयं तु सुकुमारस्य कीर्तितम् । मणीचकस्य चतुर्थं मणीचकमिहोच्यते । १८