सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 112, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 112

[अ० ३१-श्लो० ३०-५५] वायुपुराणम्। १०३
( देववंशवर्णनम् )

शुक्लकृष्णा गतिश्चापि अपां सारमयः खगः । स इदावत्सरः सोमः पुराणे निश्चयो मतः ॥ ३०
यश्चायं तपते लोकांस्तनुभिः सप्तसप्तभिः । आशु कर्ता च लोकस्य स वायुरिति वत्सरः ॥ ३१
अहंकारादुदत्तुन्दः सङ्गूतो ब्रह्मणस्रयः । स रुद्रो वत्सरस्तेषां विज्ञे नीललोहितः ॥ ३२
तेषां हि तत्त्वं वक्ष्यामि कीर्त्यमानं निबोधत ॥
अङ्गप्रत्यङ्गसंयोगात्कालात्म पतितामहः । ऋक्सामयजुषां योनिः पञ्चानां पतिरीश्वरः ॥ ३३
सोऽग्निर्यजुश्च सोमश्च स भूतः स प्रजापतिः । प्रोक्तः संवत्सरश्चेति सूर्यो योनिर्मनीषिभिः ॥ ३४
यस्मात्कालविभागानां मासत्वंर्यनयोरपि । ग्रहनक्षत्रशीतोष्णवर्षांयुःकर्मणां तथा ॥
योजितः प्रविभागानां दिवसानां च भास्करः ॥ ३५
वकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः । एकेनैकोऽथ दिवसो मासोऽथर्तुः पितामहः ॥ ३६
आदित्यः सविता भानुर्जविनो ब्रह्मसत्कृतः । प्रभवश्चाव्ययश्चैव भूतानां तेन भास्करः ॥ ३७
ताराभिमानी विज्ञेयस्तृतीयः परिवत्सरः । सोमः सर्वौषधिपतिर्यस्मात्स प्रपितामहः ॥ ३८
आजीवः सर्वभूतानां योगक्षेमकद्गेश्वरः । अवेक्षमाणः सततं बिभर्ति जगदंशुभिः ॥ ३९
तिथीनां पर्वसंधीनां पूर्णिमादर्शयोरपि । योनिर्निशाकरो यश्च योऽमृतात्मा प्रजापतिः ॥ ४०
तस्मात्स पितृमान्सोम ऋग्यजुश्छन्दसात्मवः । प्राणापानसमानानाद्यैर्व्यांनोदानात्मकैरपि ॥ ४१
कर्मभिः प्राणिनां लोके सर्वचेष्टाप्रवर्तकः । प्राणापानसमानानां वायूनां च प्रवर्तकः ॥ ४२
पञ्चानां चेन्द्रियमनोबुद्धिस्मृतिजलात्मनाम् । समानकालकरणः क्रियाः संपादयन्निव ॥ ४३
सर्वात्मा सर्वलोकानामावहः प्रवाहादिभिः । विधाता सर्वभूतानां क्षमी नित्यं प्रभञ्जनः ॥ ४४
योनिरग्नेरपां भूमेरवेश्वन्द्रसमश्च यः । वायुः प्रजापतिर्भूतं लोकात्मा प्रपितामहः ॥ ४५
प्रजापतिमुखैर्देवैः सम्यगिष्टफलार्थिभिः । त्रिभिरेव कपालैस्तु अम्बकैरौषधिक्षये ॥
इज्यते भगवान्यस्मात्तस्मात्त्र्यम्बक उच्यते ॥ ४६
गायत्री चैव त्रिष्टुप् च जगती चैव या स्मृता । त्र्यम्बका नामतः प्रोक्ता योनयः सवनस्य ताः ॥ ४७
ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः । त्रिसाधनपुरोडाशास्त्रिकपालः स वै स्मृतः ॥ ४८
इत्येतत्पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः । यच्चैव पञ्चधात्मा वै प्रोक्तः संवत्सरो द्विजैः ॥
सैक षट्कं विजज्ञेऽथ मध्वादीनृतपः किल ॥ ४९
ऋतुपुत्रातंवः पञ्च इति सर्गः समासन् । इत्येष पवमानो वै प्राणिनां जीवितानि तु ॥ ५०
नदविगसमायुक्तं कालो धावति संहरन् । अहोरात्रकरस्तस्मात्स वायुरभवत्पुनः ॥ ५१
ऐते प्रजानां पतयः प्रधानाः सर्वदेहिनाम् । पितरः सर्वलोकानां लोकात्मानः प्रकीर्तिताः ॥ ५२
ध्यायतो ब्रह्मणो वक्त्रादुदन्समभवद्भवः । ऋषिर्विप्रो महादेवो भूतात्मा प्रपितामहः ॥ ५३
ईश्वरः सर्वभूतानां प्रणवायोपपद्यते । आत्मवेशन भूतानामङ्गप्रत्यङ्गसंभवः ॥ ५४
अग्निः संवत्सरः सूर्यश्चन्द्रमा वायुरेव च । युगाभिमानी कालात्मा नित्यं संक्षेपऋद्धिभुः ॥
उन्मादकोऽनुग्रहकृत्स इद्वत्सर उच्यंत ॥ ५५