सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 102, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 102

[अ० ३० श्लो० ११४-१३३] वायुपुराणम् ६३

( दक्षशापवर्णनम् )

देव्युवाच—
भगवन्सर्वदेवेषु प्रभावाभ्यधिको गुणैः । अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥ ११४
अनेन तु महाभाग प्रतिषेधेन भागतः । अतीव दुःखमापन्ना वेपथुश्च ममानघ ॥ ११५
किं नाम दानं नियमं तपो वा कुर्यामहं येन पतिर्ममाद्य ।
लभेत भागं भगवानाचिन्त्यो यज्ञस्य चार्थमथ वा तृतीयम् ॥ ११६ ॥
एवं ब्रुवाणां भगवानाचिन्त्यः पत्नीं प्रहृष्टः क्षुभितामुवाच ।
न वेत्सि देवेशि कृशोदराङ्गि किं नाम युक्तं वचनं तवेदम् ॥ ११७ ॥
अहं हि जानामि विशालनेत्रे ध्यानेन सर्वं हि वदन्ति सन्तः ।
तवाद्य मोहेन महेन्द्रदेवा लोकत्रयं सर्वथा संपमूढम् ॥ ११८ ॥
मामध्वरे शंसितारः स्तुवन्तिः रथंतरे(रं) साम गायन्ति गेयम् ।
मां ब्राह्मणा ब्रह्मसत्रे यजन्ते ममाध्वर्यवः कल्पयन्ते च भागम् ॥ ११९

देव्युवाच—
सुप्राकृतोऽपि भगवान्सर्वस्त्रीजनसंसदि । स्तौति गोपायते वाऽपि स्वमात्मानं न संशयः ॥ १२०

भगवानुवाच—
नाऽऽत्मानं स्तौमि देवेशि पश्य त्वमुपगच्छ च । यं स्रक्ष्यामि वरारोहे भागार्थं वरवर्णिनि ॥ १२१
एवमुक्त्वा तु भगवान्पत्नीं पाणैरपि प्रियाम् । सोऽसृजद्भगवान्वक्त्राद्भूतं क्रोधाग्निसंनिभम् ॥ १२२
सहस्रशीर्षं देवं च सहस्रचरणेक्षणम् । सहस्रमुद्गरधरं सहस्रशरपाणिनम् ॥ १२३
शङ्खचक्रगदापाणिं दृप्तकार्मुकधारिणम् । परश्वसिधरं देवं महारौद्रं भयावहम् ॥ १२४
घोररूपेण दीप्यन्तं चन्द्रार्धकृतभूषणम् । वसानं चर्म वैयाघ्रं महरुधिरनिस्रवम् ॥ १२५
दंष्ट्राकरालं विश्रान्तं महावक्त्रं महोदरम् । विद्युज्जिह्वं प्रलम्बोष्ठं लम्बकर्णं दुरासदम् ॥ १२६
कुलिशोद्योतितकरं भाभिर्ज्वलितमूर्धजम् । ज्वालामालापरिक्षिप्तं मुक्तादामविभूषितम् ॥ १२७
तेजसा चैव दीप्यन्तं युगान्तमिव पावकम् । आकर्णदारितास्यान्तं चतुर्दंष्ट्रं भयानकम् ॥ १२८
महाबलं महातेजं महापुरुषमोधिरम् । विश्वहर्तृमहाकायं महान्यग्रोधमण्डलम् ॥
युगपच्चन्द्रशतवद्दीप्यन्तं मन्मथामिवत् ॥ १२९
चतुर्महास्यं सिततीक्ष्णदण्डं महोग्रतेजोबलपौरुषाढ्यम् ।
युगान्तसूर्याग्निसहस्रभासं सहस्रचन्द्राामलकान्तिकान्तम् ॥
प्रदीप्तसर्वौषधिमन्दराभं सुमेरुकैलासहिमाद्रितुल्यम् ॥ १३०
युगाग्निभं महावीर्यं चारुनासं महाहनम् । प्रचण्डगण्डं दीप्ताक्षमभिज्जालाविलाननम् ॥ १३१
मृगेन्द्रकृत्तिवसनं महाभुजंगवेष्टितम् । उष्णीषिणं चन्द्रधरं काचिदुग्रं काचित्समम् ॥ १३२
नानाकुसुममूर्धानं नानागन्धानुलेपनम् । नानारत्नाविचित्राङ्गं नानाभरणभूषितम् ॥ १३३