वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 98, कुल 296 में से
संदर्भ में पढ़ें62 वास्तुमण्डनम्
महोत्कटा दिशां नाथाः वसन्त्यन्योन्यसंमुखाः ।
पूजिताः पूजयन्त्येते घातयन्त्यपदस्थिताः ॥ ७ ॥
ध्वजः सिंहो १०वृषो हस्ती स्वपदे वामदक्षिणे ।
कर्णगाः स्वपदे देया आयद्वारे ११विदिग्गते ॥ ८ ॥
ध्वजसिंहवृषे वास्तु देवतायतने हिताः ।
विप्रादिनां क्रमाद्गेहे सर्ववर्णे गजो हितः ॥ ९ ॥
१२अधमानां गृहे धूमो श्वान रासभवायसः ।
वृषस्थाने गजं दद्यात् सिंहवृषभहस्तिनोः ॥ १० ॥
ध्वजः सर्वेषु दातव्यो नान्यत्र स्वपदादृषः ।
नवकोष्टीकृते भूमिमध्येऽस्याः कुलदेवता ॥ ११ ॥
स्थापयेच्छकुनार्थेषु ध्वजाद्येषु फलं क्रमात् ।
अर्थलाभश्च सन्तापो भोगः कलह एव च ॥ १२ ॥
धान्यं स्त्रीदूषणं सौख्यं मरणं च विनिर्दिशेत् ।
ध्वजः सर्वमुखः प्रत्यङ्मुखः पूर्वाननो वृषः ॥ १३ ॥
सिंह सौम्यमुखो हस्ती दक्षिणाभिमुखः शुभः ।
खण्डितं स्फुटितं दग्धं भिन्नं निपतितं तथा ॥ १४ ॥
तेषां न मन्त्रसंस्कारो गतास्ता आयदेवताः ॥ १५ ॥
देवयज्ञगृहच्छत्रध्वजवेदीषु तोरणे ।
वस्त्रालङ्कारदैवेषु दद्यात्तोयाशये ध्वजम् ॥ १६ ॥
होमकुण्डेऽग्निसंस्थाने होमशाला महानसे ।
धूमं युज्याद्विशेषेण वह्निकर्मोपजीविनाम् ॥ १७ ॥
१० पृष्टो in A
११. विदिग्जजे in A
१२. अधूमानां in B