सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 96, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 96

द्वितीयोऽध्यायः
[ आयाधिकारः ]
आयधिष्ण्यव्ययांशानां चन्द्रतारादिजं बलम् ।
ज्ञात्वा गृही गृहं कुर्यात्स्त्रीपुत्रादिधनाप्तये ॥ १ ॥
१भित्तिमध्ये गृहेष्वायः प्रासादे भित्तिबाह्यतः ।
सभासु मध्ये बाह्ये वा स्यान्मध्ये शयनासने ॥ २ ॥
नगरेऽथ पुरे ग्रामे दण्डै२र्मानं विधीयते ।
३वास्तुदण्डमितं क्षेत्रं तत्रायो ४हस्तसंख्यया ॥ ३ ॥
दैर्घ्येन गुणिते व्यासे ध्वजाद्यायो हृतेऽष्टभिः ।
शेषो ५वास्तुवसात्सोऽपि ६योज्यो हस्ताङ्गुलैर्यवैः ॥ ४ ॥
ध्वजो धूमोऽथ सिंहश्च श्वानो वृषः खरो गजः ।
ध्वांक्ष आया अष्ट तेषां ७सृष्टा पूर्वादिषु स्थितिः ॥ ५ ॥
सर्वे नरकराः पक्षिचरणाः सिंहकन्धराः ।
स्वनामवदनाः ८धूमो मार्जारः ९पुरुष ध्वजः ॥ ६ ॥
१. E gives marginal note भीत्यन्तर्गृहे,
२. माने - in D, E
३. वसु - in A
४. E gives marginal note - समक्षेत्रभूमिषु
५. वस्तु - in ABC
६. योगां in A याज्यो in BC
७. वै सृष्टा in A
८. धूम्रो - in D
९. पुरुषो धूनः in A