सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 92, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 92

56 वास्तुमण्डनम्
स्वस्वमानघ्नयोर्बाह्वोर्योगान्मूलं विकर्णजम् ॥ १९६ ॥
ग्रन्थान्तरे ॥
कर्णतो बाहिके द्वे ये त्र्यंशैकान्यायुगांशकाः ।
तत्कर्णः पञ्चभागः स्यात्करे युगगुणाङ्गुलाः ॥ १९७ ॥
इति मेयविधिः ॥
भूमिं संशोधयित्वा तु पुनर्वास्तु समर्चयेत् ।
क्षेत्रपालान्दिशाधीशान् गणेशग्रहचण्डिकाः ॥ १९८ ॥
नैवेद्यैः क्षीरखण्डाज्यैः पक्वान्नैर्विविधैरपि ।
बलिभिः पुष्पधूपैश्च यथाशास्त्रं प्रपूजयेत् ॥ १९९ ॥