वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
DevanagariHindipublished296 पृष्ठ
पृष्ठ 90, कुल 296 में से
संदर्भ में पढ़ेंपृष्ठ 90
54 वास्तुमण्डनम्
गोले व्यासघनस्यार्धस्वैकविंशांशयुक् फलम् ।
ज्याशरैक्यार्धं शरघ्नं पुराणांशयुतं धनुः ॥ १९२ ॥
कृत्वा प्राक्सूत्रमधार्द्धं दक्षिणोत्तरमत्स्ययोः ।
न्यस्यसूत्रैश्चतुःकोणैरङ्कितं चतुरस्रकम् ॥ १९३ ॥
इष्टबाहुमितैर्भागैर्वृत्तार्धं विभजेत्सुधीः ।
२६१षडंशस्तस्यभुजो ह्येवं वृत्तान्तः क्षेत्रसूत्रणम् ॥ १९४ ॥
क्षेत्रार्धं स्वरसांशे २६२न षष्ठास्तस्य भुजो भवेत् ।
रसांशः स्वरसांशेन युतो बाहुः २६३कलास्रके ॥ १९५ ॥
२६१. षडंशस्याङ्गुजो in B
२६२. नमष्टास्र in BCDE
२६३. कलास्रकं in A